SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि - सुव्रतखामि चरितम् ॥१०५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seisseनपुरे श्रेष्ठि- जिनदत्तेन सङ्गतम् । वर्ततेऽमुष्य तस्योक्त्या, सर्वमेष विधास्यति ॥ २३८ ॥ आजूद राजा, वेत्रिणं प्रेष्य कश्चन । उपोद्यानं समागच्छन्, सुदतीं रुदतीं मुहुः ।। २३९ ।। पादाभ्यां धरणीपीठ-मस्पृशन्तीं सुलोचनाम् । काश्चिद्ददर्श दुर्दर्श्य - नेपथ्यद्युतिभासुराम् ॥ २४० ॥ युग्मम् ॥ सदयं श्रेष्ठिना पृष्टा, काऽसि किं नामधरिणी १ । कुतो रोदिषि दुःखार्ता, १ ग्राम्यनारीव तद् वद् ॥ २४९ ॥ साsप्यूचे मेघनादस्य, व्यन्तरस्य वधूरहम् । सुलोचनाऽभिधानाऽस्मि, सांप्रतं च्युतभर्तृका ॥ २४२ ॥ वङ्कचूलोऽप्यसौ देव !, पर्यन्ताऽऽगतजीवितः । त्वं चेमैष्यो भविष्यस्त - दनुरूपो वरो मम ॥ २४३ ॥ पूर्वमङ्गीकृतचतुर्नियमत्वादसौ शुचिः । उपार्जिताऽसुरभवो, भद्रधीर्भद्रधर्मभृत् ॥ २४४ ॥ इदानीं तव सान्निध्याद्विहिताऽनशनक्रियः । देवलोकं गमी तस्मा द्रोदीमि श्राद्धपुङ्गव ! ।। २४५ ॥ अथोवाच वणिग्नेता, मा विषीद सुलोचने ! । भविता पतिलाभस्ते, न वृक्षः फलति क्षणात् ॥ २४६ ॥ इति देवीं समाश्वास्य, गत्वा भूपनिकेतनम् । ननाम भूपतिं श्रेष्ठी, देवाऽऽदेशं प्रदीयताम् ॥ २४७ ॥ राजोवाच वणित - स्त्वमित्रो मम नन्दनः । त्वद्वाक्येन यथा काक- मांसमत्ति तथा कुरु ॥ २४८ ॥ प्रायश्चित्तमहं पश्चादाचरिष्यामि निश्चितम् । पातकान्महतः शुद्धि-गुरुणैव वितन्यते ॥ २४९ ॥ अथोत्थायाsस्तिकः प्राप, वङ्कचूलं सुदुर्बलम् । सोऽप्युवाच कियन्मात्रा, तवाऽस्ति वपुषि व्यथा ।। २५० ॥ सोऽप्यभाषिष्ट विद्धि त्वं दुःसहा वेदना मम । दुःखस्मृतिकरी भद्र !, नारकाणां पदे पदे ।। २५१ ॥ अथोवाच वणिग्मित्रो, व्यथाशान्तिर्भवेत्तव । आदिष्टमगदङ्कारै रगदं चेत्करिष्यसि ॥ २५२ ॥ For Private and Personal Use Only पञ्चमः सर्गः नवमो भवः जिनदेशनायां वकचूलकथा ॥ १०५ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy