SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मम स्वामिविरोधद्रो-रथ त्वं फलमामुहि । सजो भव रणे घोरे, स्मर देवी कुलेश्वरीम् ॥ २२३ ॥ इति बुवाणं तं राजा, कोपाऽऽटोपनटायितः। वाणेन ताडयामास, कुमारं रणरङ्गितः ॥ २२४ ॥ अथोवाच कुमारोऽसौ, न हतः सुष्टु मर्मणि । मम चक्रप्रहारस्य, रसं विद्धि विशुद्धये ॥ २२५ ॥ तेन तस्य शिरश्छिन्नं, राहोरिख बलिद्विषा । उच्चैजेयजयाराव, उच्चचार स्वचारिणाम् ॥ २२६ ॥ उद्गीण वन्दिभिडिं, माङ्गल्यं जयवृद्धिकृत् । वृष्टं देवैर्दिवः पुष्प - वृष्ट्या पञ्चर्द्धिवर्णया ॥ २२७॥ शोधितः समरस्तेन, सुधिया नव्यकाव्यवत् । समागाच्छ्रीपुरं वङ्क-चूलथूरितशात्रवः ।। २२८ ॥ प्रवेशितो महोत्सव - पूर्वकं जगतीभुजा । सम्मानितो विशेषेण, विक्रमी कस्य न प्रियः ? ॥ २२९ ॥ इतो वर्षासु जातासु, गर्जत्सु जलदेष्वपि । कन्दवद्विशिखाघात - स्तस्याऽऽविरभवत्तनौ ॥ २३०॥ उपचारशतैरेप, न शान्ति विदधे कचित् । ततः कश्चित् भिषक् प्राह, वेनि राजन् ! महौषधम् ।। २३१ ॥ नृपोवादीत भिषक् ! ब्रूहि, भैषज्यमिति सोबदत् । मांसादने द्विकस्याऽयं, भवेदाऽऽमयवर्जितः ॥ २३२॥ थुत्वेति पल्लिपोवादीत , स्मरन् नियममाऽऽत्मनः। नाऽहं भोक्ष्ये महीपाल !, स्व मांसमिव तत्तनुम् ॥ २३३ ॥ महीश ! सुगुरूपान्ते, द्विकस्य पलमत्यजम् । कथं भोक्ष्ये नु तदहं, वान्ताऽशनमिवाऽधुना ॥ २३४ ॥ नृपोऽप्यूचे सुधाभिज्ञ !, परं देहकृते कृतिन् ! । सर्व कार्य यतो धर्म-मूलं देहः प्रकीर्तितः ॥ २३५ ॥ भवे भवे भवेद्देह -स्तात ! नो नियमस्थितिः । भङ्गं न तस्याः कुर्वेऽहं, स्वयं विन्यस्तवल्लियत् ॥२३६ ।। अमुना वचसा तस्य, पीडितः काश्यपीपतिः । अथोचे कोऽपि पार्श्वस्थो मा विपीद शृणु स्फुटम् ॥ २३७ ।। नवमो मवः जिनदेशनायां For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy