________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुबतखामि
पञ्चमः
सर्गः
चरितम्
॥१०४॥
प्रयाणैरुत्प्रयाणैश्च, बहुभिः क्षितिपाऽङ्गजः । श्रीपुराभ्यर्णमायासी-ल्कि दूरं मानिनां खलु ।। २०८ ॥ कामराजमहीन्द्रोऽपि, सज्जां सेनां चकार सः। केशरी केशराऽग्रस्य, छेदनं सहते नु किम् ? ॥२०९॥ उत्तिष्ठत भटा! वर्म, गृह्णीत समितीच्छया । सज्जीकुरुत मत्तेभान्, पर्याणयत वाजिनः ।। २१०॥ निजाऽऽयुधानि चाऽऽदत्त, कुरुत व्यूहमञ्जसा । रक्षत पाणिग्राहाऽऽदि, स्थानाऽऽत्रियताऽधिकम् ॥२११॥ एवं कोलाहलो जज्ञे, दुःश्रावो बलयोद्धयोः। नारदर्षेः श्रवोयुग्मं, प्रीणयन्निव चोत्थितः ॥ २१२॥ सवरूथो रथाऽऽरूढप्रौढप्रहरणप्रियः । स वङ्कचूल उत्तस्थौ, समं प्रतिमहीभुजा ॥ २१३ ॥ रणतूर्येर्वाचमान-रिलक्ष्मी रणाङ्गणे । ननर्ति दन्तिसचट्ट-दन्तठात्कारतालतः ॥ २१४ ॥ उच्छलद्भिः खगैर्योम, पिदधे वायुवेगिमिः । शूरस्याऽपि हि का वार्ता ?, विषमा रणसंस्थितिः॥२१५॥ भल्लाभल्लिर्मुष्टामुष्टिः, खड्गाखगिस्तलातलि । केशाकेशि दण्डादण्डि, बाणाबाणि गदागदि ॥ २१६ ॥ कुन्ताग्रहतवैरीभ-निर्गच्छच्छोणितच्छलात् । बुभुक्षितकृतान्तस्या - sऽचमनं विधिना ददे ॥ २१७॥ बाणकुन्तपतद्दण्डे, रूप्यस्थलायितं भुवि । वीराणां पतितैः शीः सर्वतः कवलायितम् ॥ २१८॥ माद्यन्ति कोणपाः काम, नरीनृत्यति नारदः । नश्यन्ति कातराः काल-वक्रादिव रणाऽङ्गणात् ॥२१९॥ नेयुयुधिरे केपि, भ्रमः पेतू रणाङ्गणात् । विचित्राः सुभटास्तत्र, कर्मप्रकृतिचारवः ॥ २२० ॥ म्रियमाणेषु वीरेषु, मूञ्छितेषु च केषुचित् । डुढौके वङ्कचूलस्तु क्रुद्धकालाऽनलोपमः ॥ २२१ ॥ प्राप्तो विपक्षभूपाल - मेवमूचे क्षितीन्द्रसूः। रे रे ! स्थिरो भवाऽमुष्मिन् , रणे वीररसायने ।। २२२ ॥
नवमो भवः जिनवेशनाया
॥१०४॥
For Private and Personal Use Only