________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ORKO
नवमो भवः
उत्पाट्य मण्डला ग्राणि, यामिकास्तु डुढौकिरे । भूपेन ज्ञातवृत्तेन, निषिद्धा हननोद्यताः॥ १९३ ॥ धृतो निबन्धवृत्त्या सौ, न्यायात्सौख्यं विपत्स्वपि । प्रातरास्थानमानीतो, भटैः क्षितिपतेः पुरः॥१९४ ॥ तदर्शनेन साऽजन्दो, जगाद क्षितिवल्लभः । उत्तमकुलजातस्या - ऽवस्था हि कथमीदृशी? ॥१९५॥ महत्तायाः कुलस्योच्चै - वदन्मौनभागिव । ततो विचारभूपेन, पुत्रत्वेनाभिनन्दितः ॥ १९६ ॥ (यतः-) यवया जननीत्वेन, प्रपन्ना मम वल्लभा । तदुत्तमोऽसि वीराणां, त्वदाऽऽधीना मम क्षितिः॥१९७॥ विन्यस्तो युवराजत्वे, स राज्ञा विपुलोत्सवात् । न तीरे योज्यते क्वापि, पारीन्द्रः परकूलगः ॥ १९८ ॥ इति दध्यौ मनःपञ, विचारस्मेरकर्णिके । प्रशस्था मुनिहंसास्तु, सदाऽचरणरङ्गिणः॥१९९ ॥ येषां प्रसादमाहात्म्य -सुलब्धनियमोत्सवात् । ईग्रूपाऽभवद्भतिः, साधुसेवोत्सवे फलम् ॥ २० ॥ विमृशनिति सुश्राद्ध-जिनदत्तेन संततम् । सङ्गतिं विदधे चारु, श्रावकत्वविधित्सया ॥२०१॥ अकारयजिनेशानां, चैत्यानि विधिपूर्वकम् । सिषेवे सुगुरून्पश्च-महाव्रतधुरन्धरान् ॥ २०२॥ अन्येयुः श्रीपुरावासि-कामरूपमहीभुजा । विपुलो विग्रहो जातो, राजानो विग्रहप्रियाः॥ २०३ ॥ विचारधवलो भूपो, जयटकामवीवदत् । मानिनो मानदलनाः, किं सहन्ते लवानपि ॥ २०४॥ अथ ज्ञातस्वरूपोऽसौ, महीनाथं व्यजिज्ञपत् । मृगपूगे महाऽष्टोपः, पारीन्द्रस्य भवत्यहो!॥ २०५॥ तव प्रसादाद्भूपालं साधयामि भटोपमम् । मयि सत्यपि किं सङ्घर्ष, विधातुं युज्यते किल ? ॥२०६॥ ततस्तद्वचनं श्रुत्वा, विचारधवलोऽतुषत् । चतुरङ्गबलैः सार्दू स एनमभ्यषेणयत् ॥ २०७॥
| जिनदेशनायां वक्कचूलकथा
For Private and Personal Use Only