SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पौनःपुन्येन गणना-निरतं न्यश्चमम्बकम् । उपानहा ताडयन्तं, रे! रे! रे! वचनैरिति ॥ १६४ ॥ ॥ त्रिभिर्विशेषकम् ॥ अस्यां देशान्तरगतौ, हारितो रूपकस्त्वया । थियो निर्गममार्गोऽयमिति मूढप्रकाशितः॥१६५ ॥ नाकाद्यारञ्जितो मुग्धः, पीडितो रूपकोष्मितैः । अस्थाने हि गतं रिक्थं, नृणामुद्वेगवेगकृत् ॥ १६६ ॥ एवं निर्भर्त्सनोत्सितं, सुतमेनं, विलोक्य सः । पलितेभ्यो न जिइति, विमुह्यति धनाशया ॥१६७॥ धनं निदधतोऽमुष्य, निधनं विस्मृतं हृदि । अहो आशा-पिशाचीय, तरुणी वार्द्धकेपि हि ॥ १६८ ॥ यदभूद्रविणे हानि-स्तत्किमेतस्य हीयते । चेत्पुत्र-गृहिणी-कान्ता-श्वशुरस्य किमागतम् ? ॥ १६९।। रूप्यकार्थे सुतं द्वेष्टि, योऽयं लोभान्धमानसः। तदस्य द्रविणेऽप्याप्ते, भावि किं मम पातकम् ? ॥ १७ ॥ विपुलं श्रीपुरमिदं, रजन्यपि गरीयसी । खात्रदानेऽप्यहं सजो, निर्लजोत्र स्थितोऽस्मि किम् ? ॥ १७१ ॥ ध्यात्वेति निर्गतस्तस्मात्, क्षत्रदानादवैक्षत । पणाङ्गनां रतीभूत-देहां धवललोचनाम् ॥ १७२ ।। रममाणां गलद्धाण-कुष्ठिना सह पुष्टये। कृमिभिः पूतिसंच्छन्नः, ललनामितिकुर्वता ॥ १७३ ॥ युग्मम् ॥ अहो! वराकी लोभाञ्धा , निजरूपं मनोहरम् । दूषयत्यमुना सार्द्ध-ममृतं विष्ठया समम् ॥ १७४ ॥ किमत्र नररूपेषु, दुर्भिक्षं प्रेक्षते क्षितौ । किमत्र निर्धना जाताः, पुमांसो मुषिता इव ॥ १७५ ।। लोकसर्वस्वहरयो-मुखे मधुरयोर्द्वयोः । किमन्तरं विलोक्येत, वेश्यागरलयोर्बुधैः ॥१७६ ॥ पापोपार्जितमेतस्था, न धनं युज्यते मम । काकमांसं तदुच्छिष्टमिति सत्यं वचो यथा ॥ १७७ ।। १ मधनं पितरम् । नवमो भवः जिनदेशनायां श्रीमु०१८ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy