SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि पञ्चमः चरितम् ॥१०२॥ अमुना बोधितान्येव - मेतानि खगृहं ययुः । बभार हृदयेप्येवम् , वङ्कचूलः सुदुःखितः ।। १४९ ।। नाऽहं निर्वाहशक्तोऽस्मि, ग्रामाणां केवलत्वतः । न पूर्वमर्जितं धनं, दिनद्वितयजीविका ॥ १५० ॥ आश्रितस्य भृतं दातुं, यः क्षमो न भवेद्विभुः । कृतचित्रनराऽऽकारः, स नरः कीर्तितो नरैः॥१५॥ यावचौरसुता नैते, वर्द्धन्ते क्रमशोऽखिलाः । आकाशोत्पातयित्वापि, तावद्देयं हि भोजनम् ॥१५२॥ तनुग्रामे तनुगृहे, न ममाशा समर्थ्यते । जगद्भिः शाम्यते किन्तु, ऋजुकालानलक्षुधा ॥ १५३ ॥ ममेच्छयाऽनुरूपं श्री-पुरं नामाऽस्ति विश्रुतम् । तस्मिन् गतस्य सम्पूर्णा, ममाशा भाविनी भुवि ।। १५४ ॥ इति ध्यात्वा गतः श्रीमान् , श्रीपुरोपवनाऽन्तरम् । तावद् वसुपतिः प्राप-दस्ताद्रिं तद्भयादिव ॥१५५।। प्रससार तमःपूर-स्तद्वाञ्छौध इवाङ्गवान् । ध्वान्तवातैवृतो भिल्लै-रिवात्मानममन्यत ।। १५६ ॥ प्रविष्टे नगरे तस्मि-निःशकं धनिवेश्मसु । यामिकैर्दीयमानेषु, सर्वतः प्रहरेष्वपि ।। १५७ ॥ स क्षत्रं क्षत्रियाग्रण्य-नन्दनो धनिवेश्मनि । पपात कमलाऽऽकारं, सर्व साध्यं हि दोष्मताम् ॥१५८|| ततोऽपवरकाऽऽसीनं, कलादघटनापटुम् । शिक्षयन्तं सुतं चौर्य सम्प्रदायेन दृष्टवान् ॥ १५९ ॥ अहो ! अहं महाचौरो, मत्तोऽप्येष खलाग्रणीः । यः स्वपुत्रेऽपि दु:शिक्षा, दत्ते दुर्गतिकारणम् ॥१६०॥ नाऽहमेतस्य गृह्णामि, द्रविणं चौरिकाऽर्जितम् । मातेव भूयसी नक्त-मुखा भद्रङ्कराऽस्ति मे ॥१६॥ ततोऽन्यत्र गतो बङ्क-चूलश्चपललोचनः । क्षत्रदानाद्ददर्शाऽथ, श्रेष्ठिनं सूनुना समम् ॥ १२ ॥ तदा देशान्तरायातं, कलाकौशल्यशालिनम् । समुपार्जितकोटीक, लेख्या संपूर्णरूपकम् ॥ १६३ ॥ नवमो भवः जिनदेशनाया | वकचूलकथा ॥१०२॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy