________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
भ्रातुरासनमासाद्य, नर्तितो हि तया नटः । ददे दानं हि यशसो, नान्यज्जगति कार्मणम् ॥१३४॥ नरवेषाऽप्यसौ तल्पे, सा सुप्ता भ्रातदारयुक् । इतोऽप्यागाद् वङ्कचूलः, प्रसुप्तं दृष्टवान्नरम् ॥ १३५ ।। तत्कालोदीर्णरोषाऽऽन्ध-तमसाऽश्चललोचनः। कोऽयं यमाऽतिथिर्भावी ?, यो मे धाम्नि विचेष्टते ॥१३६॥ आचकर्ष ततः कोशात्, कृपाणं निःकृपाशयः । यावद्धातचिकीस्तावत् , स्मृतोऽस्य नियमः परः ॥१३७।। पदसप्ताष्टकं पश्चाद्-भूय भूकम्पकृत्पदैः । यावद्धातचिकीरेष, दधावे वेगवत्तरः ॥ १३८ ॥ सुधौतधाराजिह्वाल-करवाल: करस्थितः । भारपट्टेऽस्खलत्ताव-कुर्वन् झणझणारवम् ॥ १३९ ॥ एतस्य प्रतिशब्देन, सहसा जागृता स्वसा । वङ्कचूलश्चिरं जीया-गतनिद्रेत्यभाषत ॥ १४ ॥ तस्याः शब्दं निशम्यैष, मुक्तरोषो ननाम ताम् । सविस्मयमुवाचाऽथ, नरवेषः किमेष ते ॥ १४१ ।। ततःसा नटवृत्तान्तं, शुभवृत्ता यथातथम् । उवाच रूप्यघण्टानु-कारिण्या सौम्यया गिरा ॥ १४२ ॥ श्रुत्वेत्यभाषत प्रीत, उच्चरोमाञ्चकक्षुकः । सूरीणामुपकारस्य, भवेयमनृणः कथम् ? ॥ १४३ ॥ एकं रामावधोऽन्यच्च, सोदर्या भगिनी सती । न मेऽस्ति नरके स्थानं सम्पूर्णविहितैनसः ।। १४४॥ सर्वदस्युकुटुम्बानां, प्रादुर्भूतेऽथ वासरे । युगपजगदे मृत्यु-हि चित्रं भवनाटकम् ॥ १४५ ॥ श्रुत्वेति दुस्सहं वाक्यं , तान्यरोदन्मुहुर्मुहुः । रोदनादपरं शोको-द्गारे भैषज्यमस्ति किम् ? ॥१४६॥ आश्वासितानि सद्युक्त्याऽमून्यनाथानि दस्युना । मा विषीदन्त देवाद्धि, बली नास्ति जगत्रये ॥१४७॥ एकोऽप्यहं कुटुम्बानां, सारां कर्ताऽस्मि सर्वदा । प्रीणाति सुधियाऽप्येको, महाऽम्भोधि नभासदः।।१४८॥
जिनदेशनायां वकचूलकथा
For Private and Personal Use Only