SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् पञ्चम: सगे: ॥१०॥ व्यतीतायाश्चतुर्मास्यां, विहारं कुर्वतो गुरुन् । अनुगन्तुमनाः सोऽपि, भक्तिभरपरायणः ॥ ८९॥ निजसीमान्तमापन्नो, गुरुन्नत्वैष चाऽभ्यधात् । नातः परं विजहेऽहं, विना नाथ ! तमखिनीम् ॥ ९॥ दासोऽस्मि भवतां नित्यं, मा भैष्ट मुनिपुङ्गवाः । पूज्यैरहमनुग्राह्यो, विस्मार्यो न हि मानसात् ॥ ९१ ॥ अथो ज्ञानोपयोगं ते, दत्त्वोचुर्मुनिपुङ्गवाः । जाता ह्युपकृतिस्त्वत्त, ऊनं तव नहि क्वचित् ॥ ९२ ॥ उपाश्रयस्त्वया दत्तो, भक्तपानादि पूरितम् । अतिक्रान्ता चतुर्मासी, तव साहाय्यगौरवात् ॥ ९३ ॥ धर्मोपदेशादप्यन्या, भवेदुपकृतिः कुतः । धर्ममूलोदिता प्राज्ञैः, पुमर्थानां चतुष्टयी ॥ ९४ ॥ यतः-धनार्थिनां निधिर्धर्मो, धर्मः कल्याणशासनम् । धर्मो मोक्षलताबीजं, धर्मः सर्वार्थसाधनम् ॥ ९५ ॥ वङ्कचूलो बभाणाथ, भवन्तो ज्ञानपारगाः । यथोदकैस्तथा भक्तै-रादेशो दीयतां मम ॥ ९६ ॥ शीलधर्मादिकं पूज्याः !, सर्व कर्तुमनीश्वरः । तद्विभागं वदन्तूच्चै-निधेरंशेन जीव्यते ॥ ९७॥ अथोचुः सूरयः काय, नाऽज्ञातफलभक्षणम् । पदसप्ताष्टकं पश्चा-द्देयं जीववधक्षणे ॥ ९८॥ मातेव प्रेयसी राज्ञो, मान्या ब्रह्मव्रते त्वया । नाधिकं श्रूयते किञ्चि-द् व्रतं ब्रह्मव्रतात्परम् ॥ ९९ ॥ सर्वमांसेषु काकानां, मांस भक्ष्यं त्वया नहि । चत्वारो नियमा एवं, चतुर्गतिनिवारणम् ॥१०॥ ततःपल्लीपतिःप्रीतो, नियमान गुरुणोदितान् । जग्राहाऽथावदत्पूज्याः, प्रसादो मेऽनघः कृतः ॥१०१।। विजहुः शमिनोज्यत्र, प्रणता नृपसूनुना | साधूनां स्थितिरेकत्र, समीरण इवास्ति न ॥१०२।। शतैश्च पञ्चभिः साकं, चौराणां स परिवृतः। निहन्तुं कश्चन ग्राम, जगाम बहुगोधनम् ॥ १०३ ॥ नवमो भक जिनदेशनाया वकचूलकथा ॥१० ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy