SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एष पल्लीनिवासोऽस्ति, चेचोक्षो वीक्ष्यते क्वचित् । अतियामश्चतुर्मासी, रक्षासंयमवाधनाम् ॥ ७४ ॥ इत्याज्ञप्ता महासत्त्वाः, तेभ्यः साधू च वाग्मिनौ । पल्ली विवशितुश्चौरी, हल्लीसकसमाकुलाम् ।। ७५ ॥ ततः पापपराश्चौरा, अन्योऽन्यं करसंज्ञया । श्रावकं दर्शयन्त्युश्चै-ही पापं साधुहीलनात् ॥ ७६ ॥ क्रमशः वंकचूलं तौ, पृच्छन्ती जग्मतुस्तराम् । विनयादयमुत्तस्थौ, विनयैः क्षत्रियः किल ॥ ७७॥ तौ दृष्ट्वा तस्य सम्पन्नः, संवेगः कर्मलाघवात् । अहो! एतौ महासत्त्वौ, परमानन्दभाजनम् ।। ७८ ॥ यदेतो दुर्लभ किश्चि-दत्यन्तं प्रार्थयिष्यतः । ततः सर्व प्रदास्यामि, श्रेयः सत्पात्रसङ्गमः ॥७९॥ ध्यात्वेति वङ्कचूलोऽपि कोशीकृतकरद्वयः। प्रोवाचाऽऽदिश्यतां साधू, सततं किं करोम्यहम् ॥ ८॥ गुरूपदिष्टौ निर्ग्रन्थी, वदतः स्म वदावदौ । सुविशुद्धं निराबाध-मर्पय त्वमुपाश्रयम् ।। ८१ ।। वङ्कचूल उवाचाऽथ, सर्व कुर्वे यथाविधि । परं जीवेषु त्राणात्मा, धर्मो वाच्यो न हि क्वचित् ॥ ८२॥ यतः-प्राणिनां निधनं कार्य, मृषा वाच्यं दिवानिशम् । ग्राह्यं वित्तमदत्तं वा, भोज्या परवधू भृशम् ।। ८३ ॥ भोक्तव्यं सुतरां मांस-मिति मेऽस्ति प्रियङ्करम् । विज्ञातसर्वतत्त्वानां भवतामप्रियङ्करम् ॥ ८४ ॥ अथोचतुर्मुनी भद्र ! भवत्विदं प्रियङ्करम् । स्वार्था संयमयात्रायु-पदेशः परतारकः ।। ८५ ॥ वङ्कचूलस्ततो गत्वा, नत्वाऽऽचार्यान् विचारभृत् । आकार्योपाश्रयं चारु, दत्तवानुपमन्दिरम् ॥ ८६ ॥ मुनिखाध्यायगम्भीर -निखनं श्रोतुमुन्मनः । दिवाऽनिशं पर्युपासाञ्चक्रे पल्लेरधीश्वरः ॥ ८७॥ भक्तपानादिकं सौख्यं, दधानः पल्लीनायकः । आचार्यान् वाहयामास, चतुर्मासीमुपासनः ॥ ८८ ॥ नवमो भवः जिनदेशनायां वकचूलकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy