SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः XOXOXOXOXOXOXOXOXOXO सभ्रूक्षेपश्च साक्षेप-मब्रवीत्काश्यपीपतिः । कुतः कलङ्कपङ्कस्ते, कुलीनस्यापि दुर्नयात् ॥ १५ ॥ निरपेक्षः कुलाचारे, व्यवहारे निरादरः । साऽऽदरो व्यसने मत्तो-ऽवकरः कल्मषस्य किम् ? ॥ १६ ॥ भवान् राज्यधुरे धुर्यो, भविता वार्द्धके मम । महीमहमिवाऽशेषां, पालयिष्यसि नीतिवत् ॥ १७ ॥ उद्धरिष्यसि नामानि, वंश्यानां धर्मकीर्तनः । एवंरूपा गताः सर्वे, वृथा मम मनोरथाः ॥१८॥ अद्य प्रभृति नो कर्ता, भवान्नागः कथञ्चन । तदा तिष्ठाऽन्यथा याहि, दूरतो मम चक्षुषः ॥ १९ ॥ अथोत्थाय कुमारोऽपि, द्विगुणं दुष्टकर्मणि । प्रवृत्तो घृतसक्तोऽग्निः, तर्पणैः किं नु शाम्यति ?॥ २०॥ अमिलनागराः केऽपि, किङ्कर्तव्यपरायणाः । यामो देशान्तरं कुर्मः, स्वप्राणव्यपरोपणम् ॥ २१ ॥ छन्नं विज्ञपयामोऽमु-मथवा नृपमेकदा । एका प्रश्नो हि दोषाणां, शतं हन्त ! व्यपोहति ॥२२॥ अथैत्य भूपमानम्य, कौमारं वृत्तमूचिरे । अमुमाकारयामास, ततोऽसौ कुपितो नृपः ॥ २३ ॥ मत्कुले विमले जन्म, धिक् धिक् पुत्र! तवाजनि । यदिदं कर्म दुष्कर्म, कुरुषे कुलपांशुन! ॥ २४ ॥ यदीदृक्षः कुमारत्वे, नृपत्वे भविता कथम् । किंपाकः पादपःसर्वा-ऽवस्थासु प्राणविप्रियः॥ २५ ॥ वत्स! तुच्छमते ! मुश्च, विषयं निखिलं मम । अथवा तिष्ठ गेहेपि, नाऽऽगः सोढास्म्यहं परम् ॥ २६ ॥ श्रुत्वेति ध्यातवानेष, हि मे जन्मविडम्बना ! भूतवद्वणिजामग्रे, ताड्यमानोऽस्मि भूभुजा ॥२७॥ न केनापि प्रदत्तानि, राज्यादीनि भवन्ति यत् । किं मृगैर्नृपनिर्भेदी, मृगनाथोऽभिषिच्यते ॥ २८ ॥ राज्यं तृणमिव त्यक्त्वा, वकचूलो विनिर्ययौ । पुष्पचूलिकया सार्द्ध, बद्धया प्रेमबन्धनैः ।। २९ ॥ *XXXXXXXXXXX जिनदेशनायां वकचूलकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy