SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भक KOOXOXOXOXOXOXOXXX धन्यास्ते पुण्यभाजस्ते, ये रामां वीक्ष्य चक्षुषा । धाराहतोक्षवद्यान्ति, वीक्षमाणाः क्षितेस्तलम् ॥६१९॥ बालत्वादप्यवज्ञात - स्मरोडामरविभ्रमाः । पालयन्तो व्रतं ब्रह्म, धन्यास्ते बालसाधवः॥ ६२० ॥ अस्मादृशा निर्विवेका, मूढा रामासु वर्मणि । यासामीग् स्वरूपं तु, विदितं जिनशासने ॥ ६२१॥ (यचे-) धत्ते स्वीपाणिभिस्स्पृष्टो, हृष्टोरोमाञ्चकचकां । स्मरयन्ति न किं स्वस्थ, कुटशाल्मलिकण्टकान् ॥६२२॥ इन्दुलेखेव या वक्रा, सन्ध्येव क्षणरागिणी। निम्नगेव निम्नगति-वर्जनीया नितम्बिनी ।। ६२३ ॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वात्महितं वामा, न पश्यन्ति मदान्धलाः ॥६२४॥ यदि स्थिरो भवेद्वायु-श्वलन्ति यदि पर्वताः । दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥ ६२५॥ ईदृश्यामनुरक्तोऽस्मि, नार्यां त्यक्तकुलक्रमः । अनङ्गेनाऽपि ही शश्वत् , साङ्गोऽपि हि विडम्ब्यते ॥६२६॥ एवम्भावयतस्तस्य, भावनापूतचेतसः । उत्पेदे केवलज्ञानं, लोकाऽलोकप्रकाशकम् ॥ ६२७॥ भावं भूपस्य विज्ञाय, दध्यौ साऽपि नटी हृदि । धिग्मे लावण्यलहरी, धिग्मे यौवनसम्पदम् ॥६२८॥ एकेन मत्कृते मुक्तम् , कुलं शीलं त्रपा द्यपि । तथेच्छति द्वितीयोऽपि, धिग्मे रूपविडम्बनाम् ॥६२९॥ विवेकोऽस्य समुदितः, सर्वथा पारदोपमः । मद्रूपस्मरसन्तापा-दिव कल्याणकारणम् ॥ ६३०॥ तयाऽपि भववैराग्य - विरङ्गितमनस्तया । अवापि केवलज्ञानं, भावान्मोक्षः करस्थितः॥ ६३१॥ पट्टदेव्यपि पीठस्था, भावं विज्ञाय भूभुजः । दध्याविति स्मरेणान्धा, नाऽकृत्यमपि जानते ॥ ६३२ ॥ अयं क्षितिपतिः क्वापि, क्वापीयं लङ्कपुत्रिका? । क वर्ण पित्तलं क्वापि, क धर्मः क्व च पातकम् ॥६३३॥ XaxayaXax0X8XOXOXXX जिनदेशनाया भावना वृत्तान्तम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy