SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥९४॥ जनस्तदा तदाऽऽकर्ण्य, विरागी भूपतौ तथा । यथा साक्षादपि क्रोशं, दातुं प्रववृतेतराम् ।। ६०५॥ (यतः-) भवेत् पिधानं कुम्भानां, शतस्य नहि देहिनाम् । सर्वोऽपि प्रायशोन्याय-पक्षं पक्षीकरोति यत् ॥६०६॥ इलापुत्रोऽपि भूपस्य, तं विवेद दुराशयम् । नटीलुब्धोऽप्ययं हन्त!, दुर्जयं कामशासनम् ॥ ६०७॥ तदा विहरतः कांश्चिन् , मन्दं शान्तिभरादिव । सर्वाङ्गशीलसन्नाहान् , विभ्रतो मोहनिर्जये ॥६०८॥ पिण्डपाणैषणां शुद्धि, वीक्षमाणान् गृहे गृहे । गृह्णतः प्राशुकं दानं, सर्वदोपैर्विवर्जितम् ॥ ६०९ ।। गुप्तित्रयपवित्राङ्गास्तपःक्षामवपुष्टरान् । भिक्षार्थमागतान् साधून , पथि वंशस्थ ऐक्षतः॥ ६१०॥ ॥ त्रिमिर्विशेषकम् ॥ अथ दध्याविलासूनुः, साम्यैकरसरङ्गितः। कटरे! विकटः कामो, येनाऽहं तु विडम्बितः॥ ६११॥ कुले जातोऽस्मि सम्पूर्णे, शीतांशोरपि निर्मले । सुधीभिरिभ्यपुत्रीभिः, प्रार्थितोऽस्मि, दिवाऽनिशम् ॥६१२॥ एतस्यां हन्त रक्तोऽस्मि, यद्वार्ताभिर्विवेकवान् । लञ्जते तत्र सजोऽस्मि, निर्लजानां शिरोमणिः ॥६१।। यज् ज्ञातं शासनं जैनं, यच्च ज्ञातं बहुश्रुतम् । तस्येदृशं मया लोके, ही फलं दर्शितं खलु ॥६१४॥ मच्चरित्रेण दुष्टेन, लज्जितः साधुसङ्गमे । न तिष्ठति पिता किन्तु गृहकोणगतोऽजनि ॥ ६१५ ॥ नात्मनो लघुतां दध्यौ, नाऽऔषं गुरुणोदितम् । अत्यजं कुलवैदुष्यं, नाऽस्मरं तत्त्वनिर्णयम् ।। ६१६ ॥ देवैर्विषयिकैः सौख्यैः, काष्ठैरिव हुताशनः । नायं तृप्तो दुराचारः, प्राणी भावविवर्जितः॥६१७॥ नीचानीचतरो राजा, ममाऽऽधीनां नटीमपि । यदयं ध्यायति स्वान्ते, त्रपां यद् हरति स्मरः॥ ६१८॥ ... नवमो मक जिनदेशनायो भावनाधर्म इलापुकवृत्तान्तम् ॥९४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy