SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायन लोकाना, दीयमान वाहये । यद्यसो ६अच्युतत्वादियं जयव विकृतः ये बुधैः किमायाता सुलोका शतो दैवात सप्त पश्चादिकया (?) स, सप्ताभिमुखान्यपि । कीलके पादुकारन्ध्रे, तन्वानः किरणान्यदात ॥५९०॥ तेन नाट्येन लोकानां मस्तकानि चकम्पिरे । अत्युत्तमं यतः शिल्प-मुत्तमाङ्गेन वर्ण्यते ॥ ५९१ ।। तस्य त्यागं नरेन्द्रेण, दीयमानं पुरीजनः । प्रत्यक्षेष्ट परं राजाऽऽ- ज्ञयैव विधृतः करे ॥ ५९२ ॥ नटीरक्तो नृपो दध्यौ, नटीमेनां विवाहये । यद्यसौ वंशतो दैवात् , पतित्वा म्रियते स्वयम् ॥ ५९३ ॥ शापादिव शची क्षोण्यां, किमायाता सुलोचना ? । अच्युतत्वादियं लक्ष्मीः, श्रीपतेः किमुपागता? ॥५९४॥ न विचार्य बुधैः किश्चित्, खीरनं दुष्कुलादपि । ग्राह्यमेव यतः शक्त्या, शिवोऽपि प्रतिभासते ॥५९५।। इलापुत्रं प्रति माह ध्यात्वेति क्षितिवल्लभः । न ध्यातानि मया सम्यक्, तदेतानि पुनः कुरु ॥५९६।। अथ पौरजनः सर्वो, वीक्ष्याऽऽपन्नोऽप्यजायत । पुनः प्रवृत्तेर्योषः, निपतन् म्रियते खलु ।। ५९७ ॥ इलापुत्रस्तु लोभान्ध-स्तान्यकार्षीत्पुनस्तराम् । कुर्वन्ति दुष्करमपि, लोभेनोपहता नराः ॥५९८॥ पुनस्तत्पतनं वाञ्छं-स्तथैवाऽऽह रसाऽधिपः । ततः पौरेण विज्ञातं, नटीरक्तो महीपतिः॥ ५९९ ॥ (यतः-) दृशं न खण्डयत्येषः, कुरुतेऽङ्गविमोटनम् । तस्माद् विषमबाणेन प्रहतः सर्वशासिना ॥ ६००॥ इलासूरपि लोभान्ध-स्तान्यदात् सम्पदाशया। वन्ध्या विचाराऽऽचारेषु, प्रत्याऽऽशा हि सुदुर्जया॥६०१॥ अथ दध्यौ नृपोऽभ्यासा-दसौ न पतति क्षितौ । अस्माकं विफलो जातो, मनोरथमहातरुः॥ ६०२॥ बलात्कारेण गृहामि, यद्येनां स्मरजीविनीम् । अकीर्तिः स्फुरति स्फीता, ह्येष नार्पयति स्वयम् ॥६०३॥ अथाऽमुं स्माऽह भूयोऽपि भूपः पातककौतुकी। अदरिद्रं करोमि त्वां, तुर्यवेलां करोषि चेत् ॥ ६०४ ॥ नवमो भवः जिनदेशनायां भावनाधर्मे इलापुत्रवृत्तान्तम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy