SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्कः श्रीमुनिसुव्रतखामिचरितम् सगे: ॥९२॥ नवमो भक आनन्दकन्दलावापो, भावकल्पमहीरुहः । स्वर्गाऽपवर्गसौख्यौध - फलैः फलति पेशलैः ॥ ५४५ ॥ दान-शील-तपोधर्मा, अमी भावं विना त्रयः। तथाविधफला न स्यु-स्तरुवदृतुमात्मनः॥ ५४६ ।। भावना मेघलेखेयं, धर्मकन्दलसेचने । तस्याः प्रभावतः प्राप-दिलापुत्रः परं पदम् ॥ ५४७॥ इहलावर्द्धनं नाम, पूरिलास्त्रीविभूषणम् । श्रेष्ठी तत्रेभ्यनामा-भूद्धनैर्धनदविभ्रमः ॥ ५४८ ।। धारिणी गृहिणी तस्य, शीलालङ्कारधारिणी। तयोरपुत्रतादुःख-मन्येयुरजनि स्फुटम् ॥ ५४९ ।। मालतीपुष्पवद्वालं, प्रत्यहं लालयन्ति ये । तेषां जन्म कृतार्थ स्या-न्मनोरथलतावताम् ॥ ५५० ॥ (यतः-) दिवा भानुर्निशामिन्दुः, प्रदीपो मन्दिरोदरम् । प्रकाशयति पुत्रस्तु निष्कलङ्कः कुलद्वयम् ॥५५१॥ अथ प्रोवाच स श्रेष्ठी, हे प्रिये ! मुश्च चेतसः । चिन्तां यत इलादेवी, बहिरस्ति सुतप्रदा॥ ५५२ ॥ अनेत्राणां ददौ नेत्रे, निःसुताना सुतानपि । बहु वित्तमवित्तानां, साक्षात्कामगवी क्षितौ ।। ५५३ ॥ अथाऽऽदरेण स श्रेष्ठी, पुत्रीयमुपयाचितम् । सप्रियो विदधेऽमुष्याः, पुत्रार्थे किं न तन्यते ! ॥५५४॥ सुतश्चेद्भविता देवि!, तत्ते नाम प्रदास्यते । यात्रां च कारयिष्यामि, महतीं तब मन्दिरे ॥ ५५५ ॥ भवितव्यतयाऽमुष्याः, सञ्जातो गर्भसम्भवः । कालेन सुषुवे पुत्रं, तेजःपुञ्जविराजितम् ।। ५५६ ॥ इलादेव्या अथाऽगारे, यात्रा निर्माय भूयसीम् । सूनोरिलापुत्र इति, द्वादशेऽङ्ख्यभिधां ददौ ।।५५७।। वर्द्धमानः सुतो गेहे, सुमेरौ कल्पवृक्षवत् । कलाशाखाण्यधीयानः, स यौवनमुपाययौ ॥ ५५८ ॥ साकं दुर्ललितमित्रै-विकारैरिव मूर्तिगैः । खैरवृत्तिरिलापुत्रो, दुर्जयो यौवनोदयः॥ ५५९ ।। *****6XXXXXXax | जिनदेशना भावनाधर्मे इलापुर वृत्तान्तम् ॥९२॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy