________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुब्रतखामि
चतुर्थः
सर्ग:
चरितम्
॥९
॥
गृहीत्वा पत्तलां प्राप्तो, मथुरां नगरीमसौ । अथ श्रेष्ठयपि वेगेन, ग्रामं देवलपाटकम् ॥ ४८७॥ तगामसम्भवो लोक-स्तद्गुणै रञ्जिताशयः। विज्ञातवृत्तस्ता प्राप, गुणैः कः को न रज्यते ॥ ४८८ ॥ तद्रामवासिकेभ्यः स, प्रसादं प्रददौ भृशम् । औचित्याऽऽचरणं नाम, शिक्ष्यन्ते किं विचक्षणाः १ ॥४८९॥ ततः सुघटितोवींशो, ध्यातवानिति मानसे । अघटोऽघटपुण्यौका, विफलीकृतमत्क्रियः॥ ४९०॥ जितशत्रुजयायोच्चै-विग्रहे दक्षिणादिशि । प्रैषि विक्रमसिंहाख्यः, सजामिस्तु मया सुतः ॥४९१॥ समीपे प्रेष्यते तस्या-ऽघटः सुघटिताऽऽकृतिः। तदाऽऽदेशेन पुत्रो मे, हनिष्यत्येनमादरात् ॥४९२॥ ध्यात्वेति भूपतिर्लेख - युग्मं द्रुतमलीलिखत् । एकोऽघटकुमारस्य, विक्रमस्याऽपरो पुनः ॥४९३॥ सलेखयुगलः प्रैषि, भूभुजा लेखवाहकः । स गत्वा मथुरा लेख-मर्पयन्मथुरेशितुः ॥ ४९४ ।। वाचयित्वा स लेख तं, भक्तिवान् पृथिवीभुजि । चतुरङ्गचमयुक्त -श्चलितो दक्षिणां प्रति ॥ ४९५ ॥ अथ विक्रमसिंहस्य, तं लेख लेखवाहकाः । समादायाऽपरं शीघ्र-मचालीत्तत्पथं प्रति ॥ ४९६ ॥ इतश्च यक्षस्तत्पुण्य -प्रेरित इव चेतसि । बभार मानसे क्वाऽस्ति, मम सूनुर्महाबलः ॥ ४९७ ॥ वीक्षामास ततश्चैनं, प्रसुप्तं लेखवाहकम् । तस्यार्थ वाचयामास, बद्धेऽपि सुरशक्तितः॥ ४९८ ॥ विक्रमसिंह ! दद्यास्त्व-मघटस्य समागमे । विषं तालपुटं नाम, विचार्य हि न किञ्चन ॥४९९॥ इत्यक्षराणामेतेषां, स्थाने यक्षो विलक्षधीः । दिव्यशक्त्यालिखदिदं, सुघटं पुण्यतोऽखिलम् ॥५००॥ कुमार्या रत्नसुन्दर्याः, पाणिग्रहमहोत्सवः । अघटेन कुमारेण, सार्द्ध कार्यो यथाविधि ॥ ५०१ ।।
नवमो भवः जिनदेशनायाँ
तपोध अघटकुमारवृत्तान्तम्
॥९
॥
For Private and Personal Use Only