SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालोऽप्यबालबुद्धिः स, लघुरप्यलघुक्रियः। व्यवहारेण शीलेन, गोत्रवृद्ध इवाजनि ॥ ४७२ ॥ आढ्यो देवधरोऽन्येयुः, सङ्गतोऽघटसूनुना । श्रीविशालापुरी प्राप, तदुद्याने स्थितः स्वयम् ॥४७३॥ रत्नैर्विशालमापूर्य, स्थालमाट नृपान्तिके । सन्मानितः स भूभा, सौचित्यविदो नृपाः ॥४७४॥ गते तस्मिन्निजावासे, ज्ञानविद्रहसि स्थितः । नृपाने कथयामास, दृष्ट्वा तमघटं स्फुटम् ।। ४७५ ॥ खामिनिभ्यसुतश्चैष, विशालानगरीश्वरः । त्वयि जीवति सम्भावी, प्रभावी विभवी नयी ॥ ४७६ ।। श्रुत्वेति भूपतिर्दध्यौ, सैष बालो ममाहितः। सदाश्चर्यचरित्रोऽयं, तेनापि हि न मारितः॥४७७॥ एतद्रक्षापरं देवं दैवज्ञकथका मम । द्वयोर्मध्यान्न च वेभि, कः केनापि विनाश्यते ॥ ४७८ ।। अयं मयैव व्यापाद्यः, सद्यः प्रज्ञाप्रयोगतः। यदवश्यं विधेयं तत् , स्वयमेव विधीयते ।। ४७९ ॥ इति ध्यात्वा स्वयं राजा, वीक्ष्यमाणच्छलं बली । दिनं निर्गमयामास, शाकिनीव दुराशयः ॥४८॥ द्वितीये दिवसे देव-धरोप्यघटसङ्गतः । आस्थानीं भूपतेः प्राप्तो, नमश्चक्रे महीभुजे ॥ ४८१ ॥ अविहत्थमथाऽऽदृत्य, सस्नेहमगदन्नृपः । महेभ्य ! तव पुत्रोऽयं, मोदकृन्मम नेत्रयोः॥४८२ ॥ ददाम्यस्मै वरं देशं, प्रसादेन मनोरमम् । अथ श्रेष्ठ्यवदन्नत्वा, नैतद्युज्येत मे कुले ॥ ४८३ ।। सदैव देव ! वणिजां, जाति तिं निषेवते । अलं प्रसाददानेन, निर्निदानेन भूपते ! ॥४८४ ॥ अथाऽघटोऽप्युवाचेदं, किमिदं तात ! भापसे ? । किं चक्रिणः पिता चक्री, श्रूयते दृश्यते नु किम् ॥४८५॥ श्रुत्वेदं वचनं तस्य, सोत्साहं सपराक्रमम् । दददे मथुरा राज्ञा, पुरी मधुरभाषिणा ।। ४८६ ॥ नवमो भवः | जिनदेशनायां तपोध अघटकुमारवृत्तान्तम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy