________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुबतखामिचरितम्
॥८९॥
नवमो भवः
ज्ञात्वेति ज्ञानतो यक्ष-स्तमखिन्यां घृणापरः । इत्यूचे धनिनं यक्षः, सुप्तस्तिष्ठसि किं न वा ? ॥४५७॥ ततो देवधरः प्रोचे, जाग्रदस्मि गुणानध! | आदेशं दिशतेदानी, मां विजानीहि किङ्करम् ॥४५८॥ अथोवाच वचो यक्षो, यक्षं जानीहि मां गुणिन् ! । उद्यानेऽस्मिन्विकाशिट्ठ-स्तोमे रम्ये रमे सदा ॥४५९॥ एतस्मिंस्त्वं ममोद्याने, स्थितोऽसि स्थितिवित्तर !। वृक्षान्न क्वाप्यमांक्षीस्त्व - महृष्यं हृदये भृशम् ॥४६०॥ न कदाचिचया चक्रे, विनाशो मे महीरुहाम् । अहं ते तेन तुष्टोऽस्मि, न वृथा देवदर्शनम् ॥४६॥ वरं वृणु गुणाम्भोधे :, यक्षेणेत्युदिते सति । ऊचे देवधरः स्वामिन् !, सर्वमस्ति गृहे मम ॥४६२॥ परं लक्ष्म्या ममैतस्य, प्रियायाःप्रीतिकन्दलः । नन्दनो नास्ति तेनाह -मसम्पूर्णमनोरथः ॥ ४६३ ॥ अथोचे व्यन्तरो हृष्टो, यद्येवं मम मन्दिरे । रममाणं कुमारं तं, गृहाण निजपुत्रवत् ॥ ४६४ ॥ तस्यैवाघट इत्याख्यां, जानीहि श्रुतिसौख्यदाम् । इत्युक्त्वा विररामाऽथ, यक्षस्तद्वनिशाऽपि च ॥४६५॥ इदं निशम्य सार्थेशो, हृष्टो हीष्टश्रुतादिव । अगादसौ प्रियायुक्तो, यक्षाऽऽयतनमुत्तमम् ।। ४६६ ।। उभाभ्यां पूजितो यक्षः, स्वर्णपुष्पैस्ततोष्टभिः । तदुत्सङ्गगतो दृष्टो, बालकः कोमलाऽऽननः ॥४६७।। तत्प्रसाद इवाऽऽभ्यां स, बालकः पेशलाऽऽकृतिः । उत्पाटितः करेणापि, पुण्यराशिरिवोउवलः ॥४६८।। तद्वालदर्शनादेतो, हर्षभ्राजिष्णुलोचनौ । पुत्रिणां धुरि मन्येता-माऽऽत्मानं मानवर्द्धितम् ॥ ४६९ ॥ देवलोपपदे पाट-ग्रामे तावथ जग्मतुः । समभूदष्टवर्षीयः, कुमारः स्मरवद्रुचा ॥ ४७० ॥ उपाध्यायात्कलाः सर्वा, अध्यैष्टाऽध्ययनप्रियः । स्तोकैरपि दिनैः सोऽभूत् , समस्तकविकुञ्जरः ॥४७॥
जिनदेशनायां
तपोधर्मे अघटकुमार
॥८e
For Private and Personal Use Only