________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं तादृशममुं वीक्ष्य, सोऽभूत्करुणयाऽऽद्रितः । धिग् धिग् मां मनसा बाल - घातपातकशङ्किनम् ||४४२॥ हन्तुं स्तनंधयममुं, न मे हस्तौ प्रसर्पतः । कथं गीरीदृशाऽऽदेशं, यच्छतो भूपतेरभूत् ॥ ४४३ ॥ तात ! तात ! इति प्रोक्तो, बालेनाऽहं यथातथा । एनं हन्मि कथं पापी, निर्दयानां शिरोमणिः ||४४४ || अस्मिन्नमारिते मे स्या- निधनं भूधनादिकम् । निन्द्यं तथापि नो कर्म्म, विधास्ये शर्मधर्महृत् ||४४५ || ध्यात्वेति भुवने मुक्तो, यक्षस्याऽथ स्तनन्धयः । तत्कण्ठाऽऽभरणं जहे, जीवितव्यमिवापरम् ||४४६ ॥ अर्पयामास भूपस्य, राजवीजमिवास्य तम् । अचीकथच्च भूमीशं, बालिशो निशि शातितः ॥४४७॥ ततः सुघटितो राजा, तद्वीक्ष्य ध्यातवानिति । अनेन प्रत्ययेनैवाऽनेन बालो निपातितः ॥ ४४८ ॥ अप्रेक्ष्यमाणौ तं बालं, मालिनीमालिकावपि । निर्जीवाविव सुचिरं, तस्थतुर्गतचेतनौ ॥ ४४९ ॥ पुत्रलाभसुखं तुच्छ - मलाभे दुःखमद्भुतम् । वाहीकानां गुरुभारों, लाभस्तुच्छो हि वल्लभे ! ॥४५०॥ उभावपि विमृश्येदं, सखेदं सखिबोधितौ । दैवोपालम्भवाचालौ, गमयामासतुः समाः ॥ ४५१ ॥ अथाsarकुमारोऽसौ, क्रीडन् भ्राम्यंस्तदौकसि । आलिलिङ्गतरां यक्ष - प्रतिमां जनकं यथा ॥४५२ ॥ तात ! तातेति सञ्जल्पन्, यक्षकूर्चस्य कर्षणम् । पूर्ववद्विदधे बालः, कोमलालापमञ्जुलम् ॥ ४५३ ॥ तद्वाक्यश्रवणोत्पन्न- प्रेमरङ्गतरङ्गितः । ज्ञानेनावधिनाऽज्ञासी - तजीवनमहौषधीम् ।। ४५४ ॥ अस्मिन्नेव महोद्यान, इभ्यो देवधराभिधः । वासितोऽस्ति धनाढ्यः परं पुत्रविवर्जितः ॥ ४५५ ।। तत्रस्थो बालकोऽप्येष, भविष्यति महासुखी । धनिनां धर्म्मपुत्रोऽपि स्वपुत्रादतिरिच्यते ॥ ४५६ ॥
For Private and Personal Use Only
नवमो भवः
जिनदेशनायां तपोध अघटकुमारवृत्तान्तम्