________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाऽभ्यधान्महीपाल -स्तं दृष्ट्वा विस्मिताऽऽजनम् । ज्ञानगर्भ ! कथं हृष्टो, विप्रकृष्टार्थवेदक ! ॥३८२॥ इत्युक्ते भूभुजावादी-त्स न किञ्चन मोनिवत् । वुद्धिपूर्व हि भाषन्ते, विचायें किल तादृशाः॥३८३।। अन्ववम् ज्ञानगर्भोऽथ, मा पृच्छ क्षितिवल्लभ!। ज्ञाते सति तवाऽशर्म, भविता भवनोत्तम! ॥३८४॥ अशर्म शर्म वा भूयात् , परं ज्ञेयं मनीषिणा । उपायः शक्यते कर्तु-मनुकूले विधातरि ॥ ३८५ ॥ इत्युक्ते भूभृताध्यादी-देष ज्ञानमहोदधिः । देव! मे किङ्करी धाम्नि, गृहकर्मणि कर्मठा ॥ ३८६ ॥ वर्तमाने शुभे लग्ने, परमोच्चग्रहान्विते । इदानीं सा प्रसूते स्म, नन्दनं स्पन्दनं श्रियाम् ॥ ३८७॥ इत्युक्त्वा विरते तस्मि-नभाणीजगतीपतिः । एतन्मात्रे शिरस्कम्पो, घटाकोटिमुपैति न ॥ ३८८ ॥ गोप्यं गोपयसे विद्वन् ! भाष्यं नो भाषसे कथम् ? । वार्तारसः परां कोटि-मुपैति कथमन्यथा? ॥३८९।। अथोच्छ्रस्य स निःश्वस्य, ज्ञान्यभाषिष्ट ते पदे । असौ भूमिपतिर्भावी, वीरूपमजिधातुवत् ॥ ३९० ॥ श्रुत्वेति नरदेवोऽथ, विसृज्याऽऽस्थानमात्मनः। शून्यस्वान्तो गतो धाग्नि, मुषिताऽशेषवित्तवत् ॥३९१॥ पुरोहितोऽपि तं बालं, प्रेक्ष्यं गत्वा व्यलोकयत् । निष्प्रभावोऽभवदीपो, भूपवद्यस्य तेजसा ॥ ३९२ ॥ द्वात्रिंशल्लक्षणाधारं, तं वीक्ष्याऽऽनन्ददं दृशाम् । भावी राज्येऽप्ययं बालः, कालः सुघटितेशितुः ॥३९३॥ इतः सुघटितश्चित्ते, ध्यातवानिति दुःखितः । अविसंवादिवाक्योऽयं, रात्रिखानोपदेशवत् ।। ३९४ ॥ अयं बालः कथङ्कार, मम राज्यं ग्रहीष्यति ? । यन्नास्ति चात्र संसारे, श्रूयते दृश्यते न तत् ॥ ३९५॥ निमञ्जति दलं वार्ती, शिला तरति पत्रवत् । कक्षे ज्वलति नो वह्नि-ग्रन्थौ वातो न बध्यते ॥ ३९६ ॥
*OXXXXXXXXX
नवमो भवः
जिनदेशनायां
तपोधर्म
अघट कुमारवृत्तान्तम्
For Private and Personal Use Only