SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् । सर्गः ॥८६॥ नवमो भवः शीलेन रक्षितो जन्तु-न केनाऽप्यभिभूयते । महाह्रदनिमग्नस्य, किं करोति दवानलः १ ॥ ३६७ ॥ कर्मभिच्छर्ममर्माली-कुल्याकूलङ्कषं तपः। सर्वार्थसाधकं धाम, तेजसां दुःखबाधकम् ।। ३६८।। तावद्गर्जति कर्मभो, विभयो भुवनोदरे । यावञ्चित्तगुहाऽध्यासी, तपःसिंहो न खेलति ॥ ३६९ ॥ अस्माभिरपि यच्चक्रे, प्रव्रज्याज्ञानमुक्तिषु । माहात्म्यं तपसस्तस्य, स्तुतिवाचामगोचरम् ।। ३७० ॥ सुमतिस्त्वेकभक्तेन, चतुर्थाद्वसुपूज्यभूः । अष्टमेन पार्श्वमल्ली, शेषाः षष्ठात्प्रवबजुः ॥ ३७१ ॥ अष्टमात् केवलं प्रापुः, श्रीपार्श्वर्षभमल्लयः। वासुपूज्यश्चतुर्थेन, शेषाः षष्ठेन तीर्थपाः ॥ ३७२ ॥ उपवासैः शिवं पड्नि-रगान्नाभिभवो जिनः । द्वाभ्यां वीरोऽपरे मास-क्षपणेन क्षमाभृतः ॥३७३॥ तन्न सिध्यति यत्रास्ति, तपोमाहात्म्यतोऽङ्गिनाम् | यथाऽघटकुमारस्य, राज्यलाभः पुराजनि ॥३७४।। तथाहि भारते क्षेत्रेऽ-वन्तिदेशस्य मण्डनम् । श्रीविशाला विशालाख्या, नगरी मुत्करी दृशाम् ॥३७५।। अभूत्सुघटितस्तत्र, भूपालः सबलो रिपौ । प्रेमभूः प्रेयसी तस्य, नाम्ना मदनमञ्जरी ॥ ३७६ ।। सुतो विक्रमसिंहोऽस्य, विक्रमैककथागुरुः । तनया विनयाऽऽवासा, सञ्जया रत्नसुन्दरी ॥३७७।। प्रश्नलग्नप्रमाणेन, कालत्रितयवेदकः । अधीतज्योतिषस्तस्य, ज्ञानगर्भः पुरोहितः॥ ३७८ ॥ आस्थानीमास्थितोऽन्येद्यु-भूपतिः स्वःपतिः श्रिया । तत्राऽऽगाज्ज्ञानगर्भोपि, शिष्यवगैः परावृतः॥३७९।। इतश्च किङ्करः कश्चि-दोकसोऽभ्येत्य किञ्चन । आख्याय ज्ञानगर्भस्य, निवृत्तस्तैरपि क्रमैः ॥३८०॥ तच्छुत्वा विस्मितवान्तः, स चक्रे नखवादनम् । धुनोति स्म शिरो मन्दं, ज्ञातुं गोपायते हिकः? ॥३८॥ जिनदेशनायां तपोधर्मे अघटकुमारवृत्तान्तम् ॥८६॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy