________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नबमो भवः
तद् दृष्ट्वा प्रमदोत्फुल्लः, प्रेयानजनि पूर्ववत् । नाश्चर्य जलसम्पर्कान् , मालिन्यमपगच्छति ॥ ३५४ ॥ ततः श्वश्रूजनोपेता, नान्दिकरनिनादयुग । चालिन्यां निहितक्षीरा, पूर्वद्वारं सती ययौ ॥ ३५५ ।। आच्छोटयत्कपाटे सा, तज्जलेन त्रिधा सती । ततः कपाटमोक्षोऽभूत् , मोक्षः शीलात् करस्थितः ॥३५६॥ दाक्षिणात्यमथ द्वारं, पश्चिमात्यश्च सा सती । उद्धाट्य सर्वप्रत्यक्षं, प्रोवाचोचकरद्वया ॥ ३५७ ॥ महसरिसा इच्छज्जा, जा होइ महासई सुशीलधरा । चालणिसंठियउदया, उग्घाडउ सा इमं पोलिम् ।।३५८|| इयतीए अणुग्घाडिय, उत्तरदिसिदारमजवि ताहेव | संमिलियं चिय चिट्ठइ, तारिसमुवयारमलहन्तम् ॥३५९।। श्वश्रूननान्डप्रमुखः, सुभद्रां प्राऽणमञ्जनः । तदीयशीलमाहात्म्य-भारनम्रशिरोधरः ॥ ३६० ॥ अथोवाच महीनाथः, सत्यं रत्नप्रसूः क्षितिः। अन्यथा रत्नतुल्याया, एतस्याः सम्भवः कथम् ? ॥३६॥ जिनशासनमाकन्द -मञ्जरीयं महासती । मृतसञ्जीवनी पुर्याः, कीर्तिगङ्गाहिमाचला ॥ ३६२ ॥ स्तुत्वेति भूपतिः साध्वी, विमुच्य च गृहे स्वयम् । सन्मान्याऽथ सुभद्राश्च, राजा स्वाऽऽवासमीयिवान् ॥३६३॥ तस्याः प्रभावमालोक्या-द्भुतं श्वश्रूजनोऽखिलः । निन्दन्नात्मानमेवाई -द्धर्म बुद्ध्या प्रपेदिवान् ॥३६४॥ क्रमादायुःक्षये जाते, सम्यक्सम्यक्त्वधारिणी । देवभूयं ययौ पश्चा-ल्लप्स्यते प्रथमं पदम् ॥ ३६५ ।। शीलं कीर्तिसितातपत्र-कलशः शीलं श्रियः कार्मणं, शीलं भावपयोधिशीतकिरणः शीलं गुणानां निधिः। शीलं निवृतिकाननैकदलिका शीलं खनिः श्रेयसां, शीलं सत्यलतावसन्तसमयः शीलं सुभद्राकृतम् ॥३६६॥
इति सुभद्रामहासती-शीलकथानकं द्वितीयम् ।
जिनदेशनायां
शीलधमें सुभद्रासतीकथानकम्
For Private and Personal Use Only