________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः
श्रीमुनिसुव्रतस्वामिचरितम् ॥८५॥
सगः
नवमो भवः
उक्त्वेति देवता दूर-मगाद्गगनवम॑नि । अपारयत्सुभद्राऽथ, कायोत्सर्ग यथाविधि ॥ ३३९ ॥ इतः प्रभातकालोऽभूगलिता निखिला निशा । आस्फालितानि तूर्याणि, गम्भीराणि सुरौकसि ॥३४०॥ मुहरुद्धाव्यमानानि, रथ्याद्वाराणि सर्वतः । विघटन्ति क्वचिन्नाऽपि, दैवीशक्तिबलीयसी ॥ ३४१ ॥ गृहान्मुक्तैः पशुवातैः, रथ्या पूर्णा पदे पदे । भाङ्कारैः पूरितं रोदः, सरित्पूरैरिवाम्बुधिः ॥ ३४२ ॥ प्रवेशनिर्गमौ रुद्धौ, जातः कलकलो महान् । समभूद्भूपतिर्भीतः, सर्वतुल्यं महाभयम् ॥ ३४३ ॥ धौतधारैः कुठारैस्तै-स्ताड्यमानानि कोटीशः । न स्फुटन्ति स्म विशेषाद् , द्वाराणि निखिलान्यपि ॥३४४॥ ततः समाकुलीभूतो, ह्यभूद्धात्रीश्वरोद्भुतम् । आययौ पादचारेण, भीतिविभ्रान्तमानसः ॥ ३४५॥ इतो नभसि देवी वा-गुच्चचार स्फुटाक्षरम् । वन्ध्यप्रयत्नं मा मूढाः, कुरुताऽऽत्मानमुच्चकैः ।। ३४६ ।। मनसाऽपि हि न ध्यात, आजन्मनः परः पुमान् । सा धारयतु चालिन्यां, जलं शीलमिवोऽवलम् ॥३४७।। अभिषिक्ते जलेनोचैः, रथ्याद्वारविघट्टनम् । भविता नाऽन्यथा दत्त-मुद्रेव त्रिदिवौकसा ॥ ३४८॥ अथ तुल्या महासत्यो, निज एव गृहस्थिताः । परीक्षायै स्वशीलस्य, चालिन्यां चिक्षिपुर्जलम् ॥३४९॥ चालिनीम्योगलन्नीरं, तासां शीलमिवाऽर्जितम् । यावन्त्यः कुटवाहिन्यः, किं तावन्त्योबुवाहिकाः ॥३५०॥ अथ प्रोचे सुभद्रा स्व-पत्युरग्रे पतिव्रता । यद्याऽऽदिशसि नाथाऽम्बु, तच्चालिन्यां क्षिपाम्यहम् ।।३५१॥ हसनुवाच सार्थेशः, कुरु शीलपरीक्षणम् । भवत्येव सतीचूडा-मणित्रिभुवनेष्वपि ॥ ३५२॥ ननान्डषु हसन्तीषु, सुभद्राऽधत्त चालिनीम् । तस्यां चिक्षेप नीरं च, तदभूच्छीलबत् स्थिरम् ॥३५३॥
जिनदेशनायां
शीलधर्मे सुभद्रासतीकथानकम्
॥८५॥
For Private and Personal Use Only