________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नबमो भवः
XXOXOXOXOXOXOK
जिनशासनमालिन्यात् , सम्यक्त्वं हि दृष्यते । अभावे दर्शनस्यापि, गतो धर्मो जिनोदितः ॥ ३२४॥ ध्यात्वेति विहितस्नाना, प्रत्याख्यानपरायणा | स्मृत्वा पश्चनमस्कार-मुवाचेति सुकोमलम् ।। ३२५ ॥ यदि मे शीलमालिन्यं, नास्ति शासनशासिके!। ततः कुरुष्व साहाय्यं, विदधीथाः प्रभावनाम् ॥३२६।। मया मुदा दृशाऽप्यन्यो, यदि दृष्टोऽस्ति पूरुषः । तदान्ध्यं चक्षुषोभूया-निग्राह्यो दोषकृद्धठात् ॥३२७॥ जिनशासनमालिन्यं, भवत्यैव विनिर्मितम् । भृत्यापराधेऽपि विभु-दण्ड्यते सत्यगीरिति ॥३२८॥ उक्त्वेति सोका तीर्थेश- शासनस्य समुन्नतौ । कायोत्सर्ग ददौ नक्तं, निश्चलाङ्गी शिला यथा ॥ ३२९ ॥ शासनस्वामिनी जज्ञे, प्रत्यक्षाऽऽक्षिप्तमानसा । धन्याऽसि कृतकृत्यासि, शुद्धशीलवताऽसि हि ॥३३॥ सफलाऽस्मि सुभद्रेऽहं, त्वन्मुखाम्भोजवीक्षणात् । महासती सरिदिव, कालुष्यं हि व्यपोहति ॥३३१॥ सुरेश्वराः किङ्करास्ते, शीलवत्याः पुरस्सरम् । असादृशी वराकी का, त्वत्पदाम्भोजहंसिका ॥ ३३२॥ परं तव प्रसादो मे, सुमहान्समजायत । यदहं पत्तिमात्रेव, स्मृता साध्वीमतल्लिके ! ॥ ३३३ ॥ तव शीलस्य माहात्म्यं, स्फुटीकर्ताऽस्मि निश्चितम् । प्रातः प्रतोलीद्वाराणां, नैवोद्घाटो भविष्यति ॥३३४॥ ततः क्षोभकरं पुर्यां, गदिष्यामि नमोऽङ्गणे । इति तारेण नादेन, सती गृह्णाति चालिनीम् ॥ ३३५ ॥ तस्यां क्षिप्त्वा जलं रथ्या-खिराछोटयतां सती । ततो भवति हे पौराः!, कपाटोद्धाटनं पुरः॥ ३३६ ॥ अभिषिक्ते त्वया साध्वि!, कपाटोद्घाटनं स्फुटम् । तमोग्रस्तस्य लोकस्य, नोद्योतो हि रविं विना ॥३३७॥ ततस्ते शीलमालिन्यं, गमिष्यति पतिव्रते। ध्रुवा प्रभावना जैनी, निदानं शिवसम्पदाम् ॥ ३३८ ॥
N-80-ON
जिनदेशनायां
शीलधर्मे सुभद्रासतीकथानकम्
श्रीमु०१५
For Private and Personal Use Only