SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इतश्च समरो राजा, भ्रातरं स्वं च पुत्रकम् । अनेक्षमाणो दध्यौ मे, नन्दनस्तेन मारितः ॥ ७६ ॥ तस्याथ शुद्धये सर्व, प्रेषितं भूभुजा बलम् । पुत्रापहारदुःखं हि, दुस्सहं नरकादपि ॥ ७७ ॥ तद्बलेन ततः प्राप्तः ससुतो मेघवाहनः । प्रवेशितश्च सोत्साहं, पुरे मणिपुरे वरे ॥ ७८ ॥ मेघवाहनमुर्वीशः, परोपकृतिकर्म्मठम् । एवं तुष्टाव गुरुवदधानः करकुशलम् ॥ ७९ ॥ जगत्रयपवित्रेण, त्वच्चरित्रेण चारुणा । उत्तंसेनेव मे कर्णौ, सकर्ण ! सुभगीकृतौ ॥ ८० ॥ नूनं विश्वोपकारैक- दीक्षितोऽसि दयानिधे ! । अन्यथा कथमेतस्य, सञ्जातो जीवितप्रदः ॥ ८१ ॥ ततः पद्माङ्गजां तेन, रणो राजा व्यवाहयत् । सेमा द्वादश तत्राऽस्थात्, सौख्यभाग् मेघवाहनः ॥ ८२ ॥ जयकेसरिपादानामुत्कोऽथ स्वपुरं प्रति । श्वशुरादेशतोऽचालीद्भूपभूर्बलभूषितः ॥ ८३ ॥ ( इतश्च) रणकेसरिसोदर्य - पुत्रेण गिरिवासिना । गच्छन् मेघबलं द्रव्य - बलेन किल भेदितम् ॥ ८४ ॥ मनसाऽपि दुष्प्रधर्षं, यद्वाचां च न गोचरम् । नोद्भटैः सुभटैः साध्यं द्रविणैर्गृह्यते हि तत् ॥ ८५ ॥ केनचिन्मत्रिपुत्रेण, तद्रहस्यं प्रकाशितम् । यत्क्रियतेऽपवरके, लोके तदपि कीर्त्यते ॥ ८६ ॥ ज्ञात्वेति खबलादेष, प्रियामादाय निर्गतः । समये समयज्ञस्यापक्रमोऽपि हि विक्रमः ॥ ८७ ॥ गच्छन्पथि तृषाक्रान्तां, पत्नीं मुक्त्वा तरोरधः । पयोगवेषणायासौ, बभ्रामाभ्रान्तमानसः ॥ ८८ ॥ गृहीत्वा सलिलं तस्मि -नायासीन्मेघवाहनः । नाद्राक्षीत्प्रेयसीं साक्षा- दुर्वशीप्रतिमामसौ ॥ ८९ ॥ १ कर्णाभूषणेन । २ वर्षाणि । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथमः भवः मेघवाहनवृतान्तः
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy