SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोऽप्यूचे कर्मणां पूरे, दूरीभूते कथश्चन । ममार्हद्धर्मलाभोऽभूत् , पुरी चम्पामुपेयुषः ।। २९४ ॥ येऽभवन्गर्भतः श्राद्धा-स्ते प्रशस्या भवादृशाः । मम मिथ्यादृशो भद्र, गतः कालः कियानपि ॥२९५॥ तदिनक्षतिरसाकं, कथं पूर्णीभविष्यति । गतं शुभमते ! वापि, न पुनः प्राप्यते वयः ॥ २९६ ॥ अहर्दिवममुं दृष्ट्वा, जिनधर्मपरायणम् । तद्गुणैः रञ्जितः श्रेष्ठी, हिङ्गुलैरिव भाजनम् ॥ २९७ ॥ कथञ्चित्तेन न ज्ञातं, श्राद्धत्वं छद्मनाऽन्वितम् । सुप्रयुक्तस्य दम्भस्य, ब्रह्माप्यन्तं न गच्छति ॥२०८।। स श्रेष्ठिनोपरोधेन, सुभद्रां परिणायितः । द्रव्यव्ययैर्यथायोग, महद्भिर्भक्तिभाषणैः ॥ २९९ ॥ दम्भादपि कृतो धर्मो, भवेदीहितसिद्धये । अनिच्छयापि सम्भुक्ता, मोदकाः किं न तृप्तये? ॥३०॥ क्रमशस्तमनुज्ञाप्य, परिपूर्णमनोरथम् । समं सुभद्रया भद्रां, प्राप चम्पापुरीमसौ ॥ ३०१॥ सिषेवे श्वशुरं भक्त्या, सुभद्रा भद्रचेतसा । वात्सल्यविनयाद्यैश्च, श्वश्रूश्च भारतीमिव ॥ ३०२ ॥ कलहेऽपि खरं वाक्यं, नाऽवादीत्कोपिताऽपि हि । साम्यवाक्यरसा याः, कुतो निष्ठरतोदयः॥३०३।। तथापि श्वश्रूवर्गस्य, न प्रिया जिनधर्मतः । परं तदीयशीलेना -ऽऽवर्जितं निखिलं पुरम् ॥ ३०४॥ यतः-धवलीकुरुते विश्व-मिन्दुः सुन्दरधामभिः । कलङ्कमात्मनो हाँ, नालं सद्वृत्तवानपि ॥ ३०५॥ अयासीधदसी जैन-मन्दिरेईनमस्यया । यदवन्दत गुरून् गत्वो-पाश्रये श्रेष्ठिनः सुता ।। ३०६ ॥ तेनाऽप्रनष्ठशल्येन, पीडऽऽक्रान्त इवाऽभितः । हृदये बौद्धभक्तत्वा-बनान्द्रादिरखिद्यत ॥ ३०७॥ पत्युर्धर्मे महारम्भाः, पत्युः कर्मणि कर्मठाः । प्रियाकृताः प्रिये पत्युर्भवन्ति हि पतिव्रताः॥३०८ ॥ नवमो भवः जिनदेशनायां शीलधर्मे सुभद्रासतीकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy