SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [OXXX C******♚XXXX www.kobatirth.org वासनावासितस्वान्तः, स ददानः परश्रियम् । जिनदत्तोऽभवत्पुण्यभाजनं जनवर्णितः ॥ २४० ॥ ( यदूचे -) अप्यन्यसम्पदां दाता, प्रपापालकवञ्जनः । याच्यतेऽञ्जलिमायोज्य, कटरे दानवल्गितम् ॥ २४१ ॥ यत्त्वया परहस्तेन, दापितं द्रव्यमात्मनः । तद्भाटकेन समभू-दुद्वाहस्तव भूपते ! ॥ २४२ ॥ जिनदत्तप्रिया भद्रा, रहस्येवमुवाच सा । तव पूर्वभवां पत्नीं श्रीदेवीं धीरया गिरा ।। २४३ ॥ जामे ! प्रियो विरक्तो मे, कारणं तन्निवेदय । सहास्यमूचे श्रीदेवी त्वग्दोषस्तव कोऽप्यभूत् ॥ २४४॥ भद्रां दुःखातुरीं वीक्ष्य, श्रीदेव्यूचे घृणान्विता । मा दुःखं भज हास्येन, मयाऽयादि त्वयीदृशम् || २४५॥ सोमचन्द्रस्ततो मृत्वा त्वमभूर्मङ्गलो नृपः । श्रीदेव्यपि तव प्राण- वल्लभाऽजनि पूर्ववत् ॥ २४६ ॥ पूर्वकर्माभिलापेन, त्वत्पत्नी लक्ष्मवत्यभूत् । सुकृतं दुष्कृतं भद्र ! भुज्यते स्वयमेव तत् ॥ जयसिंहगुरोरेवं श्रुत्वा प्राच्यं भवं निजम् । महादेव्या समं सौध - मगाद्विमलवासनः ॥ ततः प्रभृति भूपालो, दानधर्मपरायणः । अर्जयन्सुकृताद्वैतं द्वादशव्रतपालकः ॥ २४९ ॥ क्रमात् पुत्रे निजं राज्यं, निवेश्य क्षितिवासवः । गतिं शिवां सदेवीको, महानन्दमयीं ययौ ॥ २५० ॥ उपतिष्ठति दातारं दानं दत्तं परैरपि । स्वस्य दत्तस्य दानस्य किं पुनर्वर्ण्यते फलम् १ ।। २५१ ॥ प्रायः शुद्धैस्त्रिविधविधिना, प्राशुकैरेपणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः ॥ काले प्राप्तान् सदनमसकृच्छ्रद्धया साधुवर्गान्, धन्याः केचित् परभवहिता हन्त ! सन्मानयन्ति ॥ २५२॥ For Private and Personal Use Only २४७ ॥ २४८ ॥ Acharya Shri Kailassagarsuri Gyanmandir KO XO X8 X X X X-X®-X®-X®-XO नवमो भवः जिनदेशनायां दानधर्मे मङ्गलकलश कथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy