SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः सगा श्रीमुनिसुव्रतखामि चरितम् ॥ ८१॥ नवमो भवः कियत्यथ गते काले, महीं शासति मङ्गले । ज्ञात्वेति वणिज क्षुद्रं, क्रुद्धास्तु प्रान्तभूभुजः ॥ २२५ ॥ हेलया मेलयामासु-रखिलानि बलान्यमी । रुरुधुर्मङ्गलं भूपं, दैत्या इव सुराधिपम् ॥ २२६ ।। अथ ते निर्जिताः सर्वे, युद्धे मङ्गलभूभुजा । न तेजस्तादृशां हन्त, जात्यपेक्षं विजृम्भते ॥ २२७ ॥ जितकाशी ततश्चम्पा-मगान् मङ्गलभूपतिः। जयकेशर इत्यस्य, समभूनाम चाऽपरम् ।। २२८ ।। अन्यदोद्यानमायातं, जयसिंहं मुनीश्वरम् । आरामिकमुखाज् ज्ञात्वा, तं प्रणन्तुमगान्नृपः ॥ २२९ ॥ निषण्णे भूपतौ तत्र, प्रसादविकसदृशि । वासनाशासनावासां, विदधे धर्मदेशनाम् ॥ २३० ॥ प्रस्तावेऽवोचदुर्वीशो, गुरो ! दुःख्यभवं कथम् ? । सकलङ्का कथं देवी , तद् ब्रूहि ज्ञानिनाम्वर ! ॥२३॥ अथोचे साधुपुन्नागः, पुरे क्षितिप्रतिष्ठिते । श्रीदेवीदयितः सौम्यः सोमचन्द्राभिधो धनी ॥२३२॥ तत्रैव नगरे जज्ञे, जिनदत्ताभिधो नरः। सोमचन्द्रस्य समभूत् , प्रीतिस्तेन सहोचकैः ।। २३३ ॥ गत्वा देशाऽन्तरं लक्ष्मी, समुपायं सहस्रधा । मनोरथान्पूरयिष्ये, सर्वेषां तनुजन्मिनाम् ॥ २३४॥ देशान्तरं गतवतश्चेन्मे भवति पश्चता। परलोकगतेः श्रेयः, न स्यादसुमतां क्वचित् ।। २३५ ।। तदस्मादापयिष्यामि, पश्चादानं सुहृत्तमात् । निर्मलः परलोको मे, यथा भवति निश्चितम् ॥ २३६ ॥ ध्यात्वेति दश दीनार - सहस्राणि सुहृत्करे । समयेदमवादीत्स, द्वितीयं हृदयं भवान् ॥ २३७ ।। अमी देयास्त्वया धर्मे, देशान्तरगतस्य मे । मम पुण्यस्य षष्ठांशो, भूयात्तव सुहद्धरः ॥ २३८ ।। त्वन्मित्रं जिनदत्तोऽपि, त्वयि देशान्तरं गते । व्यस्राणयत्सुपात्रेषु, मित्रे श्रेयः कृते श्रियम् ॥२३९॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥८१ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy