SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ सिंहो नरेन्द्राऽन्ते, नरवेषां विधाय ताम् । नीत्वा यथाभवं वृत्त माख्यद्भूमानुवाच च ॥२१० ॥ अनया पालितं शुद्धं महाशीलवतं चिरम् । अहो ! मतिप्रपञ्चोऽस्या, नृशंसत्वं च मत्रिणः ॥ २११ ॥ सभासमक्षं भूपस्तां, प्रशंस्येति वचोऽवदत् । भज वत्से ! स्वभर्तारं भव पुत्रवती सति । ॥ २१२ ॥ इत्युक्त्वा पुत्रिकीकृत्य, स्त्रीवेषीकृत्य भूपतिः । धनदत्तगृहे प्रैषी-द्वरेण सह तां वधूम् ॥ २१३ ॥ दशाहानि धनश्रेष्ठी, वर्धापनमकारयत् । सिंहोऽपि वैरिसिंहान्ते, तदाऽऽदेशात्तदा ययौ ।। २१४ ॥ पृष्टा क्षमाभुजा पुत्री, वृत्तं स सर्वमाऽऽख्यत । तथा पुरुषवेषत्व कारिवेषं समार्पयत् ।। २१५ ॥ समाकर्णति नन्दिन्या, महिमानमनुत्तरम् । प्रमोदाऽऽमोदसुरभिः क्षोणीशी ध्यातवानदः ॥ २१६ ॥ अहो ! शक्तिरहो ! शील- महो ! भक्तिः स्ववल्लभे । अहो ! कलङ्कवैकल्य- मिति ज्ञात्वा महीपतिः ॥२१७॥ अवन्त्यास्तां समानाय्यावेशयत् सवरां सुताम् । तद्द्द्वयं वीक्ष्य हगद्वन्द्वं, मेने साफल्यमात्मनः ॥२१८॥ स्वस्वामिद्रोहिणा कस्मान्, मत्रिणा मिथुनं हहा । कलङ्कितं कलङ्केन, न धर्मे लोभिनां मतिः ॥ २१९ ॥ * अथो नाथो विशां रोषात्, सिंहं सेवकमादिशत् । मन्त्रिणं मारयाद्रथ, समारोह्य सनन्दनम् ॥ २२०॥ इतश्च मङ्गलवादी - देव ! मन्त्री पिता मम । मुञ्चाऽणुं मा वधीस्तत्तं, स च पापात् पतिष्यति ॥ २२१॥ सुतापतिचरित्रेण, भूपस्तेन चमत्कृतः । तथा चक्रे स्वदेशान्नु मत्री निर्वासितः पुरात् ॥ २२२ ॥ पुर्यां सौख्येन सोऽप्यस्थात्, सप्रियो मङ्गलश्चिरम् । निष्पुत्रत्वान्नृपेणाथ, खपदे विनिवेशितः ॥ २२३ ॥ शीलशालीनभद्रस्य, यशोभद्रस्य सद्गुरोः । व्रतमाप्य तपस्तप्त्वा देवभूवं नृपो ययौ ॥ २२४ ॥ For Private and Personal Use Only नवमो भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy