________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतखामिचरितम्
सगे:
॥ ८०॥
नवमो भवः
निशम्य भूपभूरेवं, क्रोधोद्धर इवाऽवदत् । अरेरे! कोऽयमत्यन्त-मसम्बद्धप्रलापकः ॥ १९५॥ अस्माकं कुरुते मत्री, किमिदं जनगर्हितम् । धत्तैतस्य न कोऽप्यस्ति, किमु दूरं भटा गताः ॥ १९६ ॥ धृते तस्मिन् सह छात्रै-स्तदैकः कोऽपि पाठकृत् । धनदत्ताय नंष्ट्वाऽथ, तं वृत्तान्तं न्यवेदयत् ॥१९७॥ धनदत्तस्ततः श्रेष्ठी, भीतिव्याकुलमानसः । प्रामृताद्यमुपादाय, स्वयं राजकुलेऽचलत् ॥ १९८॥ इतः पुंवेषशालिन्या, मङ्गलो मालकोपरि । गृहीत्वा प्रेमसन्दर्भ, सिंहप्रकटमुच्यते ॥ १९९॥ प्राणेश! निर्भयीभूय, मेऽखिलं दर्शयस्व तत् । यत्पित्रा मम तेऽदायि, वैवाहे मङ्गलक्षणे ॥ २० ॥ मूर्त्यन्तरं पितुः सिंहो, मत्कृते दर्शयस्व तत् । विना प्रत्यय-सङ्केतं, न प्रत्येति विचक्षणः ॥२०१।। कलशोऽप्युक्तवानेवं, यद्यसौ खसुरोत्तमः । प्रेष्यतां मन्दिरेऽस्माकं, यथा गच्छति वस्तु तत् ॥२०२॥ एवमुक्तो गतः सिंहः, सच्चक्रे तत्पिताऽप्यमुम् । परं चित्तं भयभ्रान्तं, वीक्ष्यैनं प्रोक्तवानसौ ॥ २०३॥ मा भैषीद् भद्र ! मा भैपी-नारीरूपधरो नरः । सा स्नुषा तब तत्पित् - दत्तं वस्तु प्रदर्शय ॥ २०४ ॥ तथोदिते धनेनापि, नृपनामाङ्कमुज्ज्वलम् । श्रेष्ठिना तुष्टिभृत् चिने, भूषणाद्यमदर्शयत् ।। २०५॥ सन्मान्य धनदत्तेन, प्रेषितः सिंहभूपतिः । सर्वमाख्याय ताञ्चके, नारीरूपधरां पुनः॥२०६ ॥ त्रैलोक्यमुन्दरी देवी, दिव्यनेपथ्यधारिणी । पत्युःप्रणम्य पादानं कृताञ्जलिरभाषत ॥ २०७॥ तदा प्राणेश! मां मुक्त्वा, दम्भेन गतवानसि । इदानीं चित्तचौर ! त्वं, व यातासि दृशोर्मम ? ॥२०८॥ अथोचे मङ्गलो विद्वान्, देवादिदमभूत्प्रिये! । अतः परं त्वया कार्यो, न विषादः कदाचन ॥२०९॥
जिनदेशनायो
दानधर्म मजलकलशकथानकम्
For Private and Personal Use Only