SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिमुव्रतस्वामिचरितम् ॥ ७७॥ नवमो भवः अन्तरङ्गा नराः प्रोचुः, प्रणिपत्याऽथ मत्रिणम् । अयं दुग्धमुखो बालो, निरागा हन्यते कथम् ? ॥१०५ ॥ मा वधीरवधि स्थैर्य - धैर्यायैः सुगुणैरमुम् । स्वार्यमेवं निवार्योचुः, कुमारं प्रति सादरम् ॥१०६ ॥ यदसौ भाषते मन्त्री, तत्कुरुष्व गुणानघ ! । जीवन्नरो भद्रशतं, पश्येदिति वचः स्मर ॥१०७॥ तैरेवं बोधितो दध्यौ, नितरां मङ्गलः सुधीः । व विशाला विशालाख्या, नगरी श्रीगरीयसी? ॥१०८॥ क्वायं समागमोऽप्यत्र ?, क्वेशी स्थितिरुत्थिता ? | तूलपूलकवत् केदं ? वातेनाऽऽनयनं मम ॥१०९॥ क सा तातस्य सद्वाणी, ? क्वेयं गरलसोदरी । कुल्या इव मम क्वैते?, पुंसो निधनरक्षकाः ॥११० ॥ विचार्यैवं चिरं चित्ते, प्रोचे सचिवमुच्चकैः । कारयिष्यामि तेऽभीष्टं, ममापि कुरु किश्चन ॥ १११॥ तेनोचे किं तदित्युक्ते, सोऽप्यूचे यन्महीश्वरः । मङ्गलेषु प्रदत्ते हि, तन्मे देयं गुणानघ ! ॥ ११२ ॥ तदशेषमुञ्जयिन्या, प्रहे गुप्तपूरुषैः । लेहस्य लोभतो लोकै-रुच्छिष्टमपि भुज्यते ॥ ११३ ॥ आमेति मत्रिणा प्रोक्ते, शुभवारे शुभे दिने । वर्णकोद्वर्णक विधी, वधूभिर्विहिते सति ॥ ११४ ॥ स्तूयमानगुणग्रामो, बन्दिवृन्दारकेश्वरैः । वाराङ्गनाकुलस्त्रीभ्य, उच्चरद्धवलध्वनिः ॥ ११५ ॥ वादित्राणां महाघोप-बधिरीकृतविष्टपः। गजारूढः कुमारोऽसौ, विवाहाऽऽवासमाऽऽसदत् ।। ११६ ॥युग्मम्।।। ध्वनत्सु वर्यतूर्येषु, हस्तालेपे कृते सति । शुभलग्नोदये जाते, सहर्षो धनदत्तभूः ॥ ११७ ॥ त्रैलोक्यसुन्दरीकन्या- मुपयेमे तदाज्ञया । चतुर्थे मङ्गले राजा, ददावस्मै हयादिकम् ॥११८ ।। युग्मम् ।। तथापि सुन्दरीपाणिं, जामातरि न मुञ्चति । राजा सस्नेहमाचख्यौ, वत्स ! याचख वाञ्छितम् ॥ ११९ ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥७७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy