SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामि चरितम् ॥ ७६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यापनयने भद्र !; समर्था नास्मि सर्वथा । बन्धो निकाचितो यस्मात्, वेद्यस्तीर्थङ्करैरपि ॥ ७५ ॥ सविषादोऽवदन्मत्री यद्येवं देवि ! तत्परम् । नरमानय यः कन्यां भाटकेनोपयच्छते ॥ ७६ ॥ हस्ते कृत्य सुतां राज्ञः, समर्प्य मम नन्दने । यथा प्रयाति तद्ब्रूहि, वरं मम मनोहरम् ॥ ७७ ॥ भूयोऽप्युवाच सा देवी, प्रयुज्याऽवधिवैभवम् । यः कश्चन बहिः पुर्याः, शीतार्तोऽभ्येति बालकः ॥ ७८ ॥ स युष्मन्मन्दुरारक्षै - दक्षैरप्रेष्टिकास्थितैः । तपद्भिः छन्नमानेय, इत्युक्त्वा देव्यगान्नभः ॥ ७९ ॥ आहूय मन्दुरारक्षा- नमात्य इदमत्रवीत् । तपतां भवतां वह्नौ, योऽभ्येति निशि बालकः ॥ ८० ॥ स मेऽन्तिकं समानये स्तृतीयेऽह्नि दिनादतः । इत्याऽऽदिश्य च तान्मन्त्री, विससर्ज दिवात्यये ॥ ८१ ॥ विज्ञायावधिना पुत्री - योग्यं मङ्गलमद्भुतम् । अवन्त्यामगमदेवी, तमारामस्थमैक्षत ॥ ८२ ॥ मध्येव्योम ततः स्थित्वा, देव्यवादीदिति स्फुटम् । सुतः सैष कुमारीं यो, भाटकेनोपयंस्यते ॥ ८३ ॥ मङ्गलोsपि निशम्येदं, मानसे ध्यातवानिति । किमपूर्वमिदं व्योम्नि, श्रूयते देवतोदितम् ॥ ८४ ॥ भवताद्वप्सुराऽऽख्यास्ये, विचिन्त्येति गृहं गतः । तत्सर्वं व्यस्मरत्तस्य, नान्यथा भवितव्यता ।। ८५ ।। द्वितीयेऽपि दिने श्रुत्वा तन्नाऽऽख्यदसको पितुः । उद्यानाद्यावद्भ्येति, तावद् वायुर्ववौ दिवि ॥ ८६ ॥ वातेन तेन जातेनो- त्पाट्य तृतीयके दिने । चम्पाया निकटाऽटव्यां व्यमोचि श्रेष्ठिनन्दनः ॥ ८७ ॥ मुक्तमात्रः स तत्राथ, पालीतालीजलाविलम् । वेल्लत्कमलिनीखण्डं, स ददर्श महासरः ॥ ८८ ॥ सुधारसरसं हारि, वारि पाणिपुटात्पपौ । वटं पालीकिरीटाभ- मारुरोह, झटित्यसौ ॥ ८९ ॥ For Private and Personal Use Only *•*•*•*®xxxxxxxx चतुर्थः सर्गः नवमो भवः जिनदेशनायां दानधर्म मङ्गलकलशकथानकम् ॥ ७६ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy