SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ****** www.kobatirth.org अथ श्रेष्ठीत्यभाषिष्ट, यदुःखमधिकं मम । सत्यमेतत्कलत्रादौ कथितं हि लघूभवेत् ॥ ३० ॥ दृष्ट्वा स्तनंधयानङ्के, पित्रोरुल्लापतत्परान् । मच्चित्तं कौतुकाऽऽकृष्टं दुःखमावहते भृशम् ॥ ३१ ॥ पतिव्रतेऽन्तरायोऽस्ति किञ्चित्कर्म पुरातनम् । सुता येन न जायन्ते, मनोरथकथाऽधिपाः || ३२ ॥ उवाच सत्यभामेश ! खिद्यसेऽत्र कथं मुधा । सुकरे कर्मणि प्रायः, खेदं भजति मूढधीः ॥ ३३ ॥ परिणीतासु चान्यासु, कन्यासु तनयास्तव । बहवोऽपि भविष्यन्ति, मौक्तिकानीव शुक्तिषु ॥ ३४ ॥ अवादीत्सत्यभामांस, चारु नो भाषितं त्वया । त्वां विना गृहिणी नान्या, भवेदत्र भवे मम ॥ ३५ ॥ त्वदङ्गसम्भवाः पुत्राः प्रीणयन्ति मनो मम । तृष्णा चातकमिव, घनस्यादिमबिन्दवः || ३६ || कथ्यतां मम पुत्रार्थमुपायः कोऽपि वल्लभे ! । यतेऽहं येन भावेनो - पायादर्थः प्रसिद्ध्यति ॥ ३७ ॥ साsप्यूचे देव ! यद्येवं देवं पूजय तीर्थपम् । देहि दीनेषु सद्दानं, पात्राऽपात्रविचारणात् ॥ ३८ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वेति श्रेष्ठपुन्नागः, स चकार जिनार्चनाम् । चमत्कारि ददौ दानं, श्रद्धया दययाऽनिशम् ॥ ३९ ॥ अस्य प्रकृष्टया धर्म- चेष्टया शासनेश्वरी । रञ्जिता वाञ्छितं तस्य यथाकाममशिश्रिणत् ॥ ४० ॥ साथ गर्भावतारस्य, निशायां सुखशायिनी । स्रग्भिः श्रीभिरिवाकीर्ण, कामकुम्भं व्यलोकत ॥ ४१ ॥ स स्वप्नः प्रातरुत्थाय, कान्ताय कथितस्तया । स निशम्येदमाचख्यौ प्रिये ! भावी सुतस्तव ॥ ४२ ॥ साऽसूत समये सूनुं, श्रेष्ठी खमानुसारतः । सुनोर्मङ्गलकलश, इत्याख्यामुत्सवे व्यधात् ॥ ४३ ॥ लाल्यमानः स धात्रीभिः, वर्द्धमानो दिने दिने । अष्टवत्सरदेशीयो, जज्ञे पितृमनोरथैः ॥ ४४ ॥ For Private and Personal Use Only Foxoxoxoxoxox.xx.xx. नवमो भवः जिनदेशनायां दानधर्मे मनस्टकलशकथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy