SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खगोत्ररुधिरं ताव-द्राज्यलुब्धः कदर्थयन् । अधर्मकर्मपाकेभ्यः श्वपाकेभ्योऽतिरिच्यसे ॥४७॥ इति श्रुत्वा गिरी, मेघवाहनो वीरशेखरः। प्राविक्षत्काननस्यान्त-निष्कोशतरवारिभृत् ॥४८॥ श्रीरकण्ठं महीपीठे, लुण्ठितं मृतरवत् । विलोक्य भूपतेः पुत्रो बभूव करुणादृतः ॥ ४९ ॥ भिन्दानः करवालेन, वेताल इव बालकम् । नैष धत्ते कथं लजा, निजदोर्वीर्यदुर्मदः ॥ ५० ॥ निगोत्यगदद्धालघातकं मेघवाहनः । अरे ! सजं कुरुष्वास्त्रं, स्मराभीष्टां कुलेश्वरीम् ॥५१॥ श्रुत्वेति तद्वचः क्रुद्धः, पातकी वातकीव सः । एवमूचे विसूचीभिर्वाचाभिर्नृपनन्दनम् ॥५२॥ एतस्यायुःक्षये जातस्तव मृत्युरसंशयम् । व्यसने रजकस्यापि, रासभस्य यथा मृतिः॥५३॥ मेघवाहनमुक्त्वाशु, चिक्षेपास्त्रं स बालभित् । बभूव तत्तदा मोघमन्यायिषु कुतो जयः? ॥ ५४ ॥ करालकरवालेन, महिषध्वजबन्धुना । भूपभूः फलवत्तस्य, क्षितौ मौलिमपीपतत् ॥ ५५ ॥ बन्धानथ स बालस्य, बिभेदाम्भोजनालवत् । अन्वकम्पयदेनं तु, गिरा प्रेमतरङ्गया ॥५६॥ कस्त्वं कस्मादिहाऽऽयातः, कुतस्ते व्यसनागमः । कोऽयमेष ? कृतद्वेष इति ब्रूहि ममाग्रतः ॥ ५७ ॥ ____ अथाभ्यधादसौ नाथ ! बङ्गादेशनिवेशनम् । पुरं मणिपुरं नाम, कुलधाम श्रियामिव ।। ५८ ।। तत्र प्रतापी भूपालो, नाम्ना समरकेसरी । विद्युद्गतिः प्रिया तस्य, विद्युद्विद्युद्वतो यथा ॥ ५९॥ रणे केसरिसोदयः, पितृव्यो मम सन्मते ।। अयं चित्रगतिनाम, विचित्राधमचेष्टितः ॥ ६॥ गिरं सि.डे.। २'तरु० क. सि. डे। ३"से० दे०। ४ यमराजसहोदरेण । ५ अनुकम्पामकरोत् । प्रथमः भवः मेषवाहनवृत्तान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy