________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
चतुर्थः सर्गः अथाऽऽरभत विश्वेशो, देशनां क्लेशनाशिनीम् । ऐहिकामुष्मिकाभीष्ट-साधिका दुःखबाधिकाम् ॥१॥ रोहणादिरजाक्षोदा-दिवाऽसाराद्भवादतः । जात्यरत्नमिव प्रापं, धर्म शमैकलक्षणम् ॥ २॥ संयमः सूनृतं शौचं, ब्रह्माऽऽकिञ्चनता तपः । शान्ति-माईव -ऋजुता, मुक्तिश्च दशधा स तु ॥३॥ कुल - जातिवलोपेतः, शान्तो दान्तो जितेन्द्रियः। श्रद्धालुर्गुरुभक्तश्च, क्षमावान् विनयी नयी ॥४॥ अमर्मवादी निर्मायः, पराऽपायप्ररक्षकः । इत्यादिगुणसम्पन्नो, यतिधर्माय कल्पते ।। ५॥ युग्मम् ।। विषयाऽव्यामूढमनाः, श्रद्धालुः परमार्हतः । एकविंशतिगुणवान् गृहिधर्माय युज्यते ॥ ६ ॥ (स चायम्-) सम्यक्त्वमूलानि पश्चा- ऽणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि, व्रतान्येतानि गेहिनाम् ॥७॥ यतिश्रावकधर्मेपु, दानं शीलं तपस्तथा । भावना अप्यमी धर्मा, मुक्तिमार्गकदेशकाः ॥ ८ ॥ दानधर्मः श्रियां पात्रं, दानधर्मः शुभास्पदम् । दानधर्मों यशोमूलं, दानधर्मो गुणाध्वनिः ॥९॥ धर्मोऽयं विजयी दान-खगपत्तलयाऽमुया । आवर्ष सेव्यतेऽस्माभि-र्यः सर्वैस्तीर्थपैरपि ॥ १० ॥ स्वरूपं दानधर्मस्या-भिरूपं महिमास्पदम् । मङ्गलकलशाऽऽख्याना-द्वर्ण्यमानं निशम्यताम् ॥११॥ (तथाहि-)अस्यैव जम्बूद्वीपस्य, मुख्यस्य मुखमण्डनम् । अवन्ती नाम नगरी, जयन्ती स्वः पुरीं श्रिया ॥१२॥ वैरिसिंहो नृपस्तत्र, वैरिवारणदारुणः । देवी सोमानना तस्य, सोमचन्द्रेति विश्रुता ॥ १३ ॥ धनदत्ताभिधस्तत्र, श्रेष्ठी श्रीद इव श्रिया । सत्यभामा प्रिया तस्य, सती शान्ता त्रपावती ॥ १४ ॥
जिनदेशनायां
दानधर्मे मङ्गलकलशकथानकम्
For Private and Personal Use Only