________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः सर्गः
श्रीमुनिसुव्रतस्वामिचरितम् ॥७३॥
प्रयः स्युस्त्रिजगन्नाथ !, जम्बूद्वीपे यदीन्दवः । तेनोपमीयते छत्र-त्रितयं मौलिभासुरम् ॥ ४०१॥ स्तुत्वेति विरते शक्रे, ज्ञात्वा ज्ञानोत्सवं विभोः । सुव्रतः पृथिवीपालः, सुव्रताऽऽभ्यर्णमाययौ ॥ ४०२॥ प्रणिपत्य जगन्नाथ, सनाथः परया मुदा । सहितो नागरैर्लोकः, स्तुतवानिति भूपतिः॥४०३ ।। दिव्यध्वनिरसास्वाद-लुब्धास्त्वत्पादपङ्कजम् । तदेकतानहृदयाः, सेवन्ते सततं मृगाः॥ ४०४॥ स्यूते इब करेरिन्दोः, फेनैरिव करम्बिते । तव पावे जगन्नाथ !, रेजाते चामरे इमे ॥ ४०५ ।। तव सिंहासनं नाथ !, धत्ते सुरगिरिश्रियम् । अप्रकम्प्यं सुरैः कामं, चारुकल्याणभाजनम् ॥ ४०६ ॥ भाति भामण्डलं पृष्टे, पिण्डीभूतमहासुरैः। उदयद्वादशाऽऽदित्य-तेजस्तोमविडम्बकम् ॥ ४०७ ॥ इत्थं स्तुत्वा त्रिभुवन -गुरुं सुव्रतं सुव्रतार्थी, पृथ्वीनाथो विनयविनतः सुव्रतः प्रीणितार्थी । सिञ्चन् भक्तिद्रुममतिघनैर्हर्षनेत्राश्रुपूरैः, वाचः श्रव्या नवमधुमुचः श्रोतुमुत्को न्यपीदत् ॥ ४०८ ॥
नवमो भवः
**6*6XXXXXXXXX
XXXXXXXXXXXB)
शक-सुव्रतनृपाभ्यां कृता जिनस्तवना.
॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके हरिवंशोत्पत्तिप्रकटनश्यवन - जन्म - दीक्षा- केवलज्ञानोत्पत्तिव्यावर्णनो नाम तृतीयः सर्गः ॥४॥
ग्रन्थानम् मूलतो ।। २०५० ॥
॥७३॥
For Private and Personal Use Only