________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KOKeXOXOXOXOXEX6Ka
नवमो भवः
चत्वारिंशद्धन्वशत-द्वयोचाऽशोकपादपम् । विदधुखिदशास्तत्र, नृत्यन्तं प्रचलैर्दलैः॥ ३८८ ।। तत्र सिंहासनं दिव्यं, चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि, शुभ्रं छत्रत्रयं सुराः ॥ ३८९ ॥ सर्वाश्चर्यैरिख कृतं, निर्मितं मङ्गलैरिव । सङ्कीर्णमिव लक्ष्मीभिः, हर्षमूरिवाऽऽबृतम् ॥ ३९० ॥ जगचित्ररिव व्याप्त, निधानैरिव सेवितम् । चक्रे समवसरणं शरणं पर्वणामिव ।। ३९१ ॥ एकत्र दिव्यरम्भोरु-करताडितदुन्दुभिः । एकत्र पश्चमग्राम-प्रपश्चस्थिरकिन्नरम् ॥ ३९२ ।। एकत्र लेप्यललना-करकुम्भगलज्जलम् । एकत्र रममाणखः- कुमारकृतहुंकृतिः ।। ३९३ ।। एकत्र खर्वधूलोक - हल्लीसककृतोत्सवम् । एकत्र किन्नरीगान-प्रपञ्चस्थिरकिन्नरम् ॥ ३९४ ॥
॥ पञ्चभिर्द्वितीयश्लोकमध्यक्रियाकुलकम् ।। मुहुः सञ्चार्यमाणेषु, लक्ष्मीलीलागृहेष्विव । स्वर्णमयेषु पद्धेषु, न्यस्यन् पादसरोरुहे ॥ ३९५ ।। पुरस्तद्बन्दिभिरिव, विर्जयेति विभाषकैः। अमरैर्दीमानाऽध्वा, देवीभिर्गीतमङ्गलः ॥ ३९६ ॥ पूर्वद्वारात प्रविश्योच्चै- चैत्यद्रोश्च प्रदक्षिणाम् । विदधेऽवश्यकार्याणि, जिना अपि वितन्वते ॥३९॥
॥ त्रिभिर्विशेषकम् ।। "नमस्तीर्थाये"ति वचो, धारास्फारमुदीरयन् । दिव्यसिंहासने तस्थौ, कूर्माके परमेश्वरः ॥ ३९८ ।। विचक्रिरेऽसुरा मूर्ति -त्रयीं दिक्षु तिसृष्वपि । पर्षदो द्वादशाभूवन् , यथास्थानमुपाविशत् ।।३९९ ॥ अथ प्रथमकल्पेशः, कल्पितः काव्यसञ्चयैः । एवं तुष्टाव हर्षेण, पुष्टमानसविष्टरः॥४००॥
समवसरणे जिनागमनम्
श्रीमु०१३
LOXo
For Private and Personal Use Only