SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ।। ७२ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir फाल्गुनकृष्णद्वादश्यां श्रवणस्थे निशापतौ । घातिकर्मक्षयात्तत्रोत्पन्नं केवलमीशितुः ॥ ३७३ ॥ अथ क्षणात्सहस्राक्षः, प्रयुक्ताऽवधिना स्वयम् । उत्पन्नं केवलज्ञानं ज्ञात्वाऽऽगाद् भर्तुरन्तिके ॥ ३७४ ॥ अपनिन्ये हरेराज्ञा- विधेर्वायुकुमारकाः । योजनप्रमिते क्षेत्रे, तृणकाष्ठादिविसृतम् ॥ ३७५ ॥ तत्र गन्धाम्बुभिः शुद्धां, वृष्टिं स्वातिभवामिव । रजःपुञ्ज प्रशमिनीं, वृष्टिञ्चक्रुर्दिवौकसः ॥ ३७६ ॥ स्वर्णरत्नशिलाजाल - स्तद्वबन्धुर्महीतलम् । सुरास्तत्र मृतचैत्य - वन्मध्यं मेध्यबुद्धयः ॥ ३७७ ॥ जानुदनीं पञ्चवर्णा मामोदोन्मत्तपट्पदाम् । विक्षणिकाक्षणयन्तीं वृष्टिं पौष्पीं व्यधुः सुराः ||३७८ || कृत्वान्तर्मणिमस्तूप - मभितस्तमधः सुराः । हेमकपिशीर्षं वप्रं व्यधुर्भुवनवासिनः ।। ३७९ ॥ ज्योतिष्कास्तद् द्वितीयं तु सद्रत्नकपिशीर्षकम् । चक्रिरे काञ्चनैः सूर्य- रश्मिभिरिव मण्डितम् ||३८० ॥ रत्नैः प्राकारमुत्तुङ्ग, रोहणाद्रिहृतैरिव । सुरा वैमानिकाञ्चक्रु- र्माणिक्यकपिशीर्षकम् ।। ३८१ ॥ वप्रं वयं प्रति कृता, प्रतोलीनां चतुष्टयी । चतुर्दिगन्तलोकानामाह्वातुमिव दूतिकाः ।। ३८२ ॥ उपरिष्टात्प्रतोलीनां तोरणानि चकासिरे । निरीक्षितुं दिगन्तानि स्थितानीवोर्ध्वमम्बरे ।। ३८३ ।। मुखन्यस्ताम्बुजाः पूर्ण - कलशास्तोरणस्थिताः । रेजिरे मोहसन्तप्तान् भव्यान् सेक्तुमिवोद्यताः ॥ ३८४ ॥ प्रतोलीनाम्पुरो वाप्यो, दिव्या सौवर्णपङ्कजाः । क्रीडार्थमिव कैवल्य - लक्ष्म्या इव सुदीर्घिकाः || ३८५ ॥ प्रतिद्वारं धूपघट्यः, स्फुरद्धूपाः पदे पदे । विपदंश विनाशाय, निर्मितास्त्रिदशेश्वरैः ।। ३८६ ॥ देवच्छन्दं जगद्भर्तु - विश्रामाय दिवौकसः । प्राकारे मध्यमे चक्रुः, पूर्वोदीच्यां यथाविधि ।। ३८७ ॥ For Private and Personal Use Only *-*-*-*-*-*-*-* तृतीयः सर्गः नवमो भवः केवलज्ञानप्राप्तिः समवसरण ॥ ७२ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy