________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
इभ्यसामन्तवर्गाणां सम्मदागलतश्चयुतैः । हारै रचितपूजेव, भृरभृत्सर्वतोमुखी ।। ३५९ ॥ निर्ममोऽपि जगन्नाथो, मङ्गलानि पदे पदे । प्रतीयेषाऽनुचराणां सेवास्थितिविदो जिनाः ।। ३६० ।। कांश्चित्तं पश्यतो देवा- नाकाशे भुवनाधिपः । कृतार्थाऽन्विदधे स्मेर -नयनाम्भोजवीक्षणैः ॥ ३६१ ॥ एवं सुरासुरनरैः, क्रियमाणमहोत्सवः । पुरीगोपुरमुल्लचय, भववासनिवासवत् ।। ३६२ ॥ कुमुदामोदसम्मत्त-रोलम्बरवडम्बरैः । मधुरैराह्वयदिव भाविनीं मधुसम्पदाम् ॥ ३६३ ॥ एलालवङ्गकंकोल-नागरङ्गादिभूरुहैः । सहाशाप्रसृतैः पूर्ण-मित्र साधुमनोरथैः ।। ३६४ ॥ अभ्रंलिहाऽनोकहेषु, बद्धदोलं कुमारकैः । मुखासवाद्यैः पौरीभिः, पूर्यमाणहदोहदम् ।। ३६५ ।। मञ्जु गुञ्जत् पिकीनादै -राह्वयदिव तीर्थपम् । ययौ नीलगुहं नामो-द्यानं भुवननायकः ।। ३६६ ॥
[पश्चभिः कुलकम् ] || अथाऽऽयाच्छिविकारत्नात् , पोतादिव महाभुजः । उत्ततार स्वबाहुभ्यां, तरीतुं भववारिधिम् ॥३६७।। फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । सार्दू मुनिसहस्रेण, षष्ठेन प्राव्रजद्विभुः ॥ ३६८ ।। पुरे राजगृहे रम्ये, ब्रह्मदत्तनृपौकसि । द्वितीये दिवसे प्राप्ते, पायसेनाऽप्यपारयत् ।। ३६९ ।। अमरैर्निर्ममे तत्र, वसुधारादिपञ्चकम् । रत्नपीठं विभोः पाद-स्थाने ब्रह्मनृपेण तु ।। ३७० ।। परीषहमहासैन्यं, जयन् जितमनोभवः । मासानेकादशान् स्वामी, छमस्थो व्यहरत्पुनः ।। ३७१ ।। आययौ विहरन्नील-गुहोद्यानं पुनर्विभुः । तस्थौ च चम्पकतरो-रवस्तात्प्रतिमाधरः ।। ३७२॥
दीक्षाग्रहणम्
For Private and Personal Use Only