________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| नवमो भवः
उपादत्त प्रभुः पित्रा-ऽरोपितं राज्यसम्पदम् । साटिमेषु वर्षाणां, सहस्रेषु गतेष्वथ ॥ ३२९॥ पितरौ जगतां भतुः शुभध्यानपरायणी | माहेन्द्रमीयतुः कल्पं, तस्मानिर्वाणमेष्यतः ।। ३३० ।। पश्चदशाब्दसाहस्री, पालयन्पृथिवीतलम् । भोगकर्म परीक्षीणं, ज्ञानेन ज्ञातवान् विभुः ॥ ३३१ ।। न्यवेशयत्सुतं राज्ये, सुव्रतं मुनिसुव्रतः। वीतरागा अपि परं, न त्यजन्ति कुलक्रमम् ॥ ३३२॥* (यतः-) यद्वदन्यरता नारी, भर्तारमनुवर्तते । तद्वग्नोक्षरतो योगी, संसारमनुगच्छति ॥ ३३३ ॥ इतः पञ्चमकल्पस्य, प्रस्तरेऽरिष्टनामनि । लोकान्तिकानां देवाना-मासनानि चकम्पिरे ॥३३४ ॥ तत्कम्पादवधिज्ञान-प्रयोगादपि ते सुराः । सारखतादयः सर्वे, जानन दीक्षाक्षणं प्रभोः॥ ३३५ ॥ एत्य श्रीसुव्रतस्याग्रे तेज्वोचमिति भक्तितः । सर्वजगजीवहितं, खामिस्तीर्थ प्रवर्त्तय ॥ ३३६ ॥ खामी गार्हस्थ्यवासेऽपि, वैराग्यैकनिकेतनम् । विज्ञप्तस्तैर्विशेषेण, दीक्षायां सत्वरोजनि ॥ ३३७॥ अथ वात्सरिकं दानं समारेमे जगत्पतिः । सर्वेऽपि सुकृताऽऽरम्भा दानपूर्वा महात्मनाम् ॥३३॥ शृङ्गाटकचतुष्कादि-स्थानेषु प्रति वासरम् । आरभ्य सूर्योदयतो, घोषणां खाम्यकारयत् ॥ ३३९ ॥ यो यदर्थी स तद्वस्तु, गृह्णातु निजयेच्छया। एवं वर्षावधि प्रातः, प्रातरुच्चार्यते जनैः॥ ३४०॥ धनानि धनदो यक्षः, शक्राऽऽदेशादिने दिने । आहृत्य भ्रष्टनाथानि, पूरयत्यम्बुवद्धनः ।। ३४१ ।। सर्वत्रेच्छानुमानेन, दीयन्ते कुञ्जरा हयाः । स्थाऽभरणवस्त्राणि, रत्नानां राशयस्तथा ॥ ३४२ ॥ करभा केशराश्चापि, नगराणि गुरूण्यपि। ग्रामाऽऽकरा वराऽऽरामा, यथाकामं धनादयः ॥ ३४३ ॥युग्मम्।।
सांवत्सरिक दानम्
For Private and Personal Use Only