________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवा
विभोराहारनीहारी, चर्मचक्षुरगोचरौ । चत्वारोऽतिशया एते, सहजोत्था गुणा इव ॥३०॥ स्नपन-स्तन्य-नेपथ्य-क्रीडा-चालॅनकर्मसु । कर्मठा पञ्चधात्र्योऽथ, शक्रेण विनियोजिताः ।। ३०१॥ पञ्चरत्नमयं दिव्यं, कन्दुकञ्चकृवान्वृषा। विश्रामाय दृशोर्भर्तु-निंद्रातल्पोपरि स्थितम् ॥ ३०२ ॥ प्रत्यहं सुरदेवीभिः, कृतोत्तारणमङ्गलः । प्रत्यहं रक्ष्यमाणस्तु, वेत्रिभिरिव देवतैः ॥ ३०३ ॥ सौवर्णैर्गेन्दुकैः स्वामी, कदाचित्खेलनापरः । कदाचिदाऽमलक्या हि, क्रीडया प्रीणिताऽऽशयः ।।३०४॥ नाटयन्वाल्यखेलाभि-रित्थमज्ञाननाटितम् । क्रमेण बवृधे खामी, ज्ञानत्रयपवित्रितः ॥ ३०५ ।। प्रभुल्यमतिक्रम्य, मध्यंदिनमिवांशुमान् । नयनाऽऽनन्दजननं, द्वितीयं शिश्रिये वपुः ॥ ३०६ ॥ पादौ समतलौ भर्तुः, सरोजोदरसोदरौ । दामाङ्कुशध्वजैर्नावा, भूषितौ खेदवर्जितौ ॥ ३०७॥ भुजङ्गमफणाकारो, मांसलो वर्तुलो विभोः। श्रीवत्सलाञ्छनोऽङ्गष्ठः, सस्नेहो नखदर्पणः ॥ ३०८ ।। क्रमाब्जयोर्दलानीव, बभुरकुलयो विभोः। नीरन्ध्रा ऋजयो नेत्र - लोभनाः शोभनाध्यकाः ॥ ३०९ ॥ पाणिवृत्तो बभौ भर्तु-गुल्मौ च गोलकाकृती। उरुयुग्मश्च सुस्निग्ध-च्छवि लोमविवर्जितम् ।। ३१० ॥ गोपुच्छरुचिरे जर्छ, सरले क्रमवतुले । अभातां जगतां भर्तुः, कान्ते कदलिविभ्रमे ॥ ३११ ॥ विशाला मांसला भर्तुः, पुलिनाभा कटी बभौ । मध्यभागश्च तुच्छत्वात् , कुलिशस्येव सोदरम् ॥३१२॥ बभौ नाभिः सुगम्भीरा, कुक्षी स्निग्धौ च कोमलो। वक्षःस्थलं शिलाकल्पं, श्रीवत्सेन मनोहरम् ॥३१३।। दृढी पीनोन्नतस्कन्धौ, मत्ताक्षककुदोपमौ । गन्धस्खेदोज्झिते कक्षे, अल्परोममनोहरे ॥ ३१४ ॥
बालक्रीडा जिनदेहवर्णनच
For Private and Personal Use Only