SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सगे: श्रीमुनिसुव्रतस्वामि चरितम् ॥ ६९॥ नमस्तुभ्यं जिनाधीश !, परमानन्ददायिने । उल्लसत्करुणाक्षीर-पाथोधिशशलक्ष्मणे ।। २८५ ।। त्वया त्रिजगतां नाथ :, फलिनीदलकान्तिना । बद्धेन्द्रनीलमुकुट - इव भाति सुराचलः ॥ २८६ ॥ स्तुत्वेति मिथिलां गत्वा, हुत्वाऽववापिनीमपि । नत्वा मातुर्जिनं पार्श्वे, मुक्त्वा शक्रोऽभ्यधादिदम् ।।२८७|| अस्मिन् स्वामिन्यकल्याणं, योऽधमश्चिन्तयिष्यति । तस्याऽऽर्य्यमञ्जरीवाऽऽशु, स्फुटिष्यति शिरस्वयम् ।।२८८॥ पूरयित्वा विभोर्वेश्म, स्वर्णरत्नादिभिः स्वयम् । यात्रां नन्दीश्वरे कृत्वा, खं स्थानं हरयो ययुः ॥२८९।। पद्मावतीमथ ज्ञात्वा, प्रसूतां सम्भ्रमाऽन्विताः । स्त्रियः सुमित्रभूपस्य, पुत्रोत्पत्तिं वभापिरे ॥२९॥ खकिरीट विना ताभ्यः, स्वाङ्गिकं भूषणं ददौ । वृत्तिश्च चक्रिरे याव-द्वेणिकामपि सप्तमीम् ॥२९॥ रत्नस्वर्णादिभिः पूर्ण, गृहं वीक्ष्य नरेश्वरः । अज्ञासीनन्दनोत्पत्ती, देवेन्द्राणां समागमम् ।। २९२ ॥ ततो मुमुचिरे राज्ञा, कारागारात् द्विषन्नृपाः । कारयांश्चक्रिरे पूजां, सुरसबसु सर्वतः ॥ २९३ ।। समाजग्मुरुपाध्यायाः, पठन्तः सुतमातृकाम् । उच्चावचपदैः छात्रैः, बलाजिर्मकटेरिख ।। २९४ ॥ चन्द्रादर्शनं भर्तु-स्तृतीयेऽह्नि प्रमोदतः । षष्ठीजागरणं षष्ठे, पितृभ्यां च व्यरच्यत ।। २९५ ।। अस्मिन् गर्भस्थिते माता, मुनिवत्सुव्रताऽजनि । मुनिसुव्रत इत्याख्यां, पित्रा तेन विनिर्ममे ॥ २९६ ॥ अङ्गुष्ठस्थां पपौ स्वामी, शक्रसङ्क्रमितां सुधाम् । उदयेऽपि क्षुधः स्तन्यं, न पिबन्ति जिनेश्वराः ।। २९७ ॥ रेजे देहः शुचिर्भर्तुः, प्रक्षालितसुनिर्मलः । निरामयसुगन्धिश्च, पूर्णकर्पूरपात्रवत् ।। २९८ ॥ पअकिञ्जल्कसुरभि-र्बभौ श्वासो जगत्पतेः । गोक्षीरधारेव गौरे, रेजाते रुधिरामिषे ।। २९९ ॥ नवमो भवः सुमित्रभूपकतो पुत्रजन्मोत्सवः ॥ ६९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy