SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ ६८॥ नवमो भवः अच्युतेन्द्रो ततो भक्त्या, कर्पूराऽगुरुधूपिताम् । मुमोच विश्वनाथस्य, पुरतः कुसुमाञ्जलिम् ।। २५६ ॥ वाद्यमानासु भेरीषु, मृदङ्गेषु खनत्वथ । मुहुराऽऽस्फाल्यमानासु, कांस्यतालासु निर्दयम् ॥ २५७ ॥ स्मयमानैरिव न्यस्त-विस्मेरकुसुमोत्करैः। अधीयानैरिव स्नात्र-श्लोकान् गुञ्जदलिच्छलात् ।। २५८ ॥ अच्युतेन्द्रेण तैः कुम्भ-र्योजनाऽऽस्यैर्जगद्गुरोः । स्नात्रं चक्रे महाऽऽनन्दात् , सुधाभुग्भिः समं निजैः ॥२५९॥ ॥त्रिभिर्विशेषकम् ।। एवं द्वाषष्टिरन्येऽपि, स्नानं चक्रुर्जगत्पतेः । भक्त्या महत्याऽनुज्येष्ठं, सोदर्या इव हर्षतः ॥ २६० ॥ यदेकः कुरुते स्नात्रं, शक्रोऽन्ये हरयस्तदा । सर्वेऽर्हतः पुरः सन्ति, धृतचामरपाणयः ॥ २६१॥ विकृत्य पञ्चरूपाणि, तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने, दधनाथमवस्थितः ॥ २६२॥ अथ सौधर्मनाथोपि, चतुर्दिक्षु व्यधात् क्रमात् । वृषभांश्चतुरः स्फार - स्फाटिकोपलनिम्मितान् ॥२६३॥ तेषामुत्तुङ्गशृङ्गाग्र-प्रसूता गगनाङ्गणे । प्रसस्रुरम्भसामष्टौ, धाराश्चन्द्रकरोज्वलाः ॥ २६४ ॥ एकीभूय पतन्त्यस्ता-श्चन्द्रकान्तसमुज्वलाः । निम्नगा इव पाथोधौ, निपेतुः प्रभुमूर्द्धनि ॥ २६५ ॥ स्नपयित्वेति तीर्थेशं, भाविनं त्रिदिवाधिपः । रत्नदर्पणवद्वेगाद् , ममार्जामं विभोरथ ॥ २६६ ॥ ततो रत्नमये पट्टे, स लिलेखाटमङ्गलान् । निजपुण्यैरिवाऽखण्डै-स्तण्डुलैः रूप्यनिर्मितैः ॥ २६७ ॥ ततो विलेपयामास, वासवोडं जगत्पतेः। भूषणानि च प्रत्यङ्ग, वासवः पर्यदीधिपत् ।। २६८॥ विनिद्रपारिजाताद्य - कुसुमैः परमेश्वरम् । मुखकोशमनोहारी, पूजयामास वृत्रहा ।। २६९ ।। मेरुगिरी जिनसपना ॥६८॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy