SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः एवञ्च व्यन्तरश्रेण्यो-दक्षिणोत्तरसङ्घयोः । अष्टावष्टनिकायाः स्यु -स्तेष्विन्द्राः पोडश क्रमात् ॥२४।। कालशको महाकालः,सुरूपःप्रतिरूपकः। पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः ॥२४२॥ महाभीमः किन्नरश्च, किम्पुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाविमौ ॥ २४३ ॥ अतिकाय-महाकायौ, महोरगप्रभाविमौ । गीतरतिगीऽतयशा, गन्धर्वाणामधीश्वरौ ॥ २४४ ॥ तद्वदाप्रज्ञप्तिपञ्च-ज्ञप्तादीनां तु षोडश । व्यन्तराष्टनिकायाणनां, वासवाः समुपागताः ॥ २४५ ॥ तथाऽप्रज्ञप्तीनां शक्रः, सनिहितासमानकः। धाता विधाता च हरी, ऋषिश्च ऋषिपालकः ॥२४६॥ ईश्वरो महेश्वरच, सुवत्सकविशालकौ । हास-हासरती श्वेत-महाश्वेतौ पुरन्दरौ ॥२४७।। पतङ्गः पतङ्गपती, पतङ्गानां तु वज्रिणौ । एवं षोडश देवेन्द्रा-आययुर्मेरुमूर्धनि ।। २४८ ॥ ज्योतिष्काणामशेषाणां, चन्द्राऽऽदित्यावधीश्वरौ। चतुःषष्टिरितीन्द्राणां, मेरुमूर्द्धनमाययौ ॥ २४९ ॥ आदिदेशाऽच्युतेन्द्रोऽथा-ऽऽभियोगिकदिवौकसः। क्षीरादम्भः समानेतुं, जिनस्नपनहेतवे ॥ २५० ।। क्षीरोदादिसमुद्रेषु, गङ्गादिषु नदीषु च । तीर्थेषु मगधायेषु, ते गत्वा जगृहुर्जलम् ॥ २५१ ॥ तद्वन्मृत्स्नापयोजादीन, लात्वा क्षीरोदवाचितः। गोशीर्षचन्दनादीनि, तैः शक्रेभ्यो डुढौकिरे ।। २५२ ॥ सौवर्णान्राजतान्रालान्, खर्णरूप्यविनिर्मितान् । रत्नवर्णमयान् दिव्यान्, रजतस्वर्णरत्नजान् ॥ २५३ ॥ रूप्यरत्नमयान्भौमान् , विचक्रुः कलशांश्च ते । अष्टोत्तरं सहस्रं स्या-त्तेषां प्रत्येकमेव च ॥२५४ ॥युग्मम्।। अतिपाण्डुशिलापीठ- रत्नसिंहासने स्वयम् । सौधर्मेन्द्रो निषिद्याङ्के, दधौ त्रिजगतां पतिम् ।। २५५ ॥ *OXXXXXXXXXXX मेरुगिरी जिननपनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy