________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
॥ ६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्पगामिभितो याहि, न मे तार्क्ष्यः सहिष्यते । मद्विमानं विमानाऽऽग्रैः, किं घट्टसि सुधाशन ! ॥ २२६॥ इत्थं सौधर्मकल्पस्य, देवानां परिसर्प्यताम् । कोलाहलैर्नभोऽव्यापि, सरिद्धोपैरिवाम्बुधिः ॥ २२७ ॥ अथाssसातद्वीपान्धी - नतिक्रम्य क्षणादपि । सङ्क्षिपन् सङ्क्षिपन्नुच्चैस्तद्रन्धवत्पुरन्दरः ।। २२८ ॥ भारते दक्षिणे पुर्यां मघवा समुपागतः । तस्मादुत्तीर्य तीर्थेशं तदम्बाश्चाऽऽनमत्तराम् ॥ २२९ ॥ पद्मावति ! प्रभायुक्ते ! जिनकल्पद्रुमप्रदे ! । नमो दत्तजगद्दीपे !, नमश्चिन्तामणिप्रदे ! || २३० ॥ इति पद्मावती स्तुत्वा दवावस्वापिनीं हरिः । प्रतिरूपं प्रभोर्मुक्त्वा, चलितोऽभि सुराचलम् ||२३१|| वज्रं छत्रं जिनं विभ्र - च्चामरे च पृथक् पृथक् । इतीन्द्रः पञ्चरूपोऽभून्मार्गे मेरुं प्रति व्रजन् || २३२ || ततो देवाङ्गनादेव - कोटिलक्षसमन्वितः । पूरयन्गगनं तूर्य घोषैईर्षमयैरिव ॥ २३३ ॥
निमेषार्द्धेन गत्वासौ, सुवर्णाऽचलचूलिकाम् । अतिपाण्डुकम्बलायां, शिलायां प्राङ्मुखः स्थितः || २३४ || एवमीशानकल्पेशः, सनत्कुमारसञ्ज्ञिकः । माहेन्द्रो ब्रह्मलोकेशो, लान्तकस्त्रिदशाधिपः || २३५|| शुक्रशक्रः सहस्रार, आनत - प्राणतेश्वरः । आरणाऽच्युतराजोऽपि दशेत्थं कल्पवासवाः ॥ २३६॥ श्रेणिद्वयनिकायेषु, दशसुभयतः क्रमात् । अमी विंशतिरिन्द्राः स्यु- भवनानामधीश्वराः ॥ २३७ ॥ पुर्याञ्चमरचञ्चायाञ्चमरेन्द्रो बलिस्तथा । धरणेन्द्रो भूतानन्दो, हरिकान्तहरिस्सहौ ||२३८॥ वेणुदेवो वेणुदारी, त्वग्निशिखाऽसिमाणवौ । वेलम्थ - प्रभञ्जनाख्यौ, सुघोषो भुवनेश्वरः || २३९ ॥ महाघोषो जलकान्तो, जलप्रभ इति स्मृतः । पूर्णोऽवशिष्टशक्रश्च त्वमितामितवाहनौ || २४०॥
For Private and Personal Use Only
xaxaxaxax-XXXX-XX®
तृतीयः
सर्गः
नवमो भवः
चतुःषष्टिसुरेन्द्रागमनम्
॥ ६७ ॥