SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः श्रीमुनिसुव्रतस्वामि चरितम् नमो भवः नीत्वोत्तरस्या रम्भायाः, सदने हरिचन्दनैः । प्रज्वाल्याणिना वहि, ताश्च भूति विचक्रिरे ॥ १९७ ॥ रक्षाबन्धं व्यधुस्ताश्च, जननीखामिनोः करे । रक्षा दुरितभिद्रेखां, लभते सर्ववस्तुषु ॥ १९८॥ पर्वतायुर्भवेत्युच्चै-रुत्वा कर्णान्तिके विभोः । अवादयंस्ततो रत्न-पाषाणौ कांस्यतालवत् ॥ १९९॥ सूतिकाधामतो निन्यु-र्जननीं जिनमप्यथ । षट्पञ्चाशद्दिकुमार्य-स्ता गायन्त्योऽवतस्थिरे ॥ २००॥ । (इतश्च-) सौधर्मे प्रथमे कल्पे, कल्पेशोऽनल्पवैभवः । अनेकदेवकोटीनां, कोटीभिः परिवारितः ॥ २०१॥। गीयमानगुणग्रामो, गान्धर्वैः कोमलखरैः। स्तूयमानयशाश्चारु-घरणैः काव्यपतिभिः ।। २०२॥ दोधूयमानचमरो, देवनारीभिरादरात् । यावदाऽऽस्ते हरिस्ताव-दासनं कम्पमासदत् ॥ २०३ ॥ ॥ त्रिभिर्विशेषकम् ॥ तत्प्रकम्पादसौ रुष्ट - स्ताम्रीकुर्वन् दृशोर्युगम् । अन्तर्बलत्कोपबति-ज्वालाः प्रकटयनिव ॥ २०४॥ वक्रीकुर्वन् ध्रुवोर्युग्मं, कोदण्डमिव भीषणम् । ज्वलन् ज्वालाकुलं पाणी, वजं वज्रधरोधरत् ।। २०५॥ तत्कोपाटोपमुद्वीक्ष्य, नम्रमौलिः कृताञ्जलिः । प्राचीनबर्हिषं प्रोचे, नैगमेषी चम्पतिः ॥ २०६॥ कथङ्कारं विभो! कोपो, मयि सत्यपि तन्यते । शृणु वाऽऽसनकम्पस्य, कारणं श्रोत्रपारणम् ॥ २०७॥ द्वीपाये जम्बूद्वीपेऽस्मिन्, वर्षे दक्षिणभारते। पुरे राजगृहे रम्ये, श्रीसुमित्रमहीपतिः॥२०८॥ पद्मावत्या महादेच्या, अद्यैव जगतांपतिः । विंशस्तीर्थक्करो जातः, समस्तजनपावनः ॥२०९ ॥ तेनाऽऽसनप्रकम्पोऽयं, तीर्थजन्मसूचकः । दिव्यसौख्यप्रमत्तानां, कथं वो बोधिरन्यथा ।। २१०॥ सकेन्द्राऽऽन कम्म र For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy