________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नक्मो भवः
KOKOXOXOXOXOXOXOXOXOXOK
ततस्तस्य गिरेरेव, प्रहृष्टा वारुणीदिशः । संस्थानं तत्र देव्योष्टौ, चक्रुर्व्यजनपाणयः॥१८४ ॥ (ताश्चेमा:-) इलादेवी सुरादेवी, पृथिवी पद्मवत्यथ । एकनासा नवमिका, भद्राऽशोके ति नामतः ॥१८५॥ एवमुत्तरदिग्भागा-दपि रुचकवर्तिनः । समेत्याष्टौ स्थितिं चक्रु-स्तत्र चामरपाणयः ॥ १८६ ॥ (ताश्चेमाः-) अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, श्री ही इत्यभिधानतः॥१८७।। चतस्रो विदिग्रुचकात् , सदीपा दिक्कुमारिकाः। चित्रा चित्रकनका सु-तारा सौत्रामणी तथा ॥१८८॥ प्रणिपत्य जगनाथं, जगन्नाथस्य मातरम् । ईशान्यादिविदिक्संस्था, बभूवुर्दीपपाणयः ।। १८९॥ देव्योऽन्या मध्यरुचका-चतस्रः समुपस्थिताः। रूपा रूपाम्बिका चापि, सुरूपा रूपकावती ॥१९॥ ताश्चतुरङ्गुलीवर्ज, नालं छित्त्वा भुवोज्तरे | क्षिप्त्वा रत्नमयं तत्र, दूर्वापीठं विचक्रिरे ।। १९१ ॥ विहाय पश्चिमा जन्म- गृहादिक्षु तिसृष्वपि । रम्भागृहाणि हृद्यानि, देव्यस्ताश्च विचक्रिरे ।। १९२ ॥ तेषां मध्ये चतुःशालं, विशालं जिनचित्तवत् । प्रत्येकं रचयामासुः, सिंहासनविकखरम् ॥ १९३ ॥ दाक्षिणात्ये चतुःशाले, नीत्वोभौ विनिवेश्य च । सिंहासने सुतैलेना-ऽभ्यानञ्जुर्मृदुमर्दनम् ।। १९४ ।।* जनन्या सममभ्यङ्गय, शीघ्रमुद्वत्यै च प्रभुम् । निन्यिरे निभृतं देव्यः, पौरस्त्यकदलीगृहे ।। १९५ ॥ तत्र गन्धाम्बुभिः पुष्पा-म्बुभिः शुद्धाम्बुभिस्तथा । द्वावपि स्वपयित्वाऽथ, भूषयन्ति विभूषणैः ॥१९॥
दिकुमारीकृतोत्सव:
For Private and Personal Use Only