SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येधुर्वहिरुयाने, गतः शान्ताकृति स्थिरम् । धर्मध्यानरतं जैनं, मुनि-मेकमलोकत ॥ २० ॥ तं दृष्ट्वास्य समुत्पेदे, हृद्यानन्दकदम्बकः । येनाऽऽस्मानं सुधापूर-निमग्नं स्म विवेद सः ॥ २१ ॥ बटून् हास्यपटून दूरे, मुक्त्वा निर्मलभावनः । नमन्मौलिननामामु-मुवाचापि महामुनिम् ।। २२ ॥ रूपेऽप्यप्रतिरूपेऽस्मिन्, लावण्ये च समुज्वले । कथं त्यक्त्वा गृहस्थत्वम्, भवद्भिर्जगृहे व्रतम् ? ।। २३ ।। द्योतयन्निव दन्तांशु -डम्बरैरम्बरं मुनिः। अथ गम्भीरनि|पं, व्याजहारेति कोमलम् ॥ २४ ॥ ___ तथा यत्रैव सुक्षेत्रे, विपुलेति महापुरी। आसीदासीकृताराति-भूपतिर्जयकेसरी ॥ २५ ॥ मित्रसेना प्रिया तस्य, सेना कुसुमधन्विनः । मेघवाहन इत्याख्यस्तयोरजनि नन्दनः ॥ २६ ॥ सोऽप्यन्येयुर्विभावाँ स्मृताभीप्सितदेवतः । सुष्वाप भूपभूस्तल्पे, मरालः पुंलिने यथा ॥ २७ ॥ चरमे यामिनीयामे, केनचित् कुल्यवैरिवत् । उत्पाट्य कानने मुक्तः सशय्यो घनवाहनः ॥ २८॥ स निद्राच्छेदमासाद्या-पश्यदुत्पक्ष्मलोचनः । न स्वावासं सुखावासं, दृशां नवरसायनम् ॥ २९ ॥ किं खमो? मनसः किंवा भ्रमः क्लमकरोमम?। किमिन्द्रजालं? किं नेत्र-दोषपोषमुपागतः ॥ ३० ॥ कसा राज्यस्थितिः ? कैषा महावनविभीषिका? । क्वच बन्दिजनालापः? क्वेदं शार्दूलबूत्कृतम् ॥ ३१ ॥ अथ वा भाग्यनिर्णाशे जायते सर्वमन्यथा । रञ्जुः फणी सुधा क्ष्वेडः पयो वह्निः सुहृद्रिपुः ॥ ३२॥ तथापि व्यसनव्यालजाङ्गुलीमत्रसन्निभम् । प्रकाश्यं सत्त्वमेवोचैः, पुरुषेण जिगीषुणा ॥ ३३ ॥ 'सा' इति पादपूरणे। २ समूहः। ३ द्वीपे । ४ विषम् । प्रथमः भवः मेघवाहनवृत्तान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy