________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम: सर्गः
श्रीमुनिसुव्रतस्वामिचरितम् ॥१॥
प्रथमः भवः
उत्कीर्त्य खामिनो मल्ले-श्चरित्रमतिपावनम् । क्रमागतमहं वच्मि, सुव्रतस्य जगद्गुरोः ॥७॥ तथा हि-गङ्गासिन्धूरुनाडीकः, सप्तक्षेत्राङ्गभासुरः। गजदन्तचतुर्दन्तो, जम्बूद्वीपो द्विपायते ॥८॥ तत्रैरावतनामाऽस्ति, क्षेत्रं भरतविस्तरम् । माकन्दीनगरी तत्र, नान्दीव बहुलक्षणा ॥ ९ ॥ निधानानीव पुण्यानां, कुण्डानीव यशोऽर्णसाम् । पद्मानीव श्रियां यस्या-मर्हचैत्यानि रेजिरे ॥ १० ॥ मणिकुट्टिमसंक्रान्तो, यत्र पौरीमुखैर्जितः । प्रविशन्निव पातालं, बीडादाति निशापतिः ॥११॥ अपर्वण्यपि यत्रोच्चै-रानीलमणिकुट्टिमे । विधुर्विधुन्तुदग्रस्तो, नागरीभिरमन्यत ॥ १२ ॥ परोपकारधौरेयाः, सदाचारप्रियंवदाः । वदान्या नागरा यत्र, सुषमाकालजातवत् ॥ १३ ॥ मणिमाली नृपस्तत्र, गुणमाली परन्तपः । श्रीणां केलिकिलः, सर्वकलाकुलनिकेतनम् ।। १४ ॥ भाविता इव कर्पूरै-मल्लीभिरिव वासिताः । कीर्तिभिर्भूषिता यस्य, दिशः सुरभिता बभुः॥१५॥ अम्भोधिभिर्गभीरत्वे, पारीन्द्रैश्च पराक्रमे । कल्पक्षितिरुहेर्दाने, जाने यस्याधमर्ण्यते ॥ १६ ॥ मणिकान्ता प्रिया मुख्या, शीलरत्नमहाखनिः। तस्याऽजनिश्रुतेर्वेत्ता, विश्वभूतिः पुरोहितः॥ १७ ॥ विश्वदत्ता गृहिण्यस्य, पतिमार्गप्रवर्तिनी। शिवकेतुस्तयोः पुत्रो, विनयी नयवत्सलः ॥ १८ ॥ अधीतब्रह्मसिद्धान्तो, गुणरागी महोद्यमी । पित्रोभक्तिपरो देव-गुरुपूजापरायणः ।। १९॥
[युग्मम् ] १ उदाराः। २ शत्रुपीडकः । ३ परिहासकः ।
॥१
॥
For Private and Personal Use Only