SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वतीया श्रीमुनि मुबतखामिचरितम् ॥६४॥ पद्मावतीमिति स्तुत्वा, द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं, स्खं स्वमीयुः सुरोत्तमाः ॥१४॥ खमान्तादपि जाग्रत्या, पद्मावत्या महीपतिम् । कथयामासिरे सर्वे, स्वमा दृष्टा अमी प्रगे ॥ १४५ ॥ ऋजुना मनसा स्खमान् , विचार्य क्षोणिनायकः। आचक्षाविति ते देवि!, सुतरत्नं भविष्यति ॥ १४६ ॥ विशेषतस्त्वमीषान्तु, फलं ज्ञातुं धराधिपः । वेत्रिणाजूहवत्सर्वान् , खमशास्त्रविशारदान् ।। १४७॥ पार्वणेन्दुवदानन्द-सम्पादनकृतोद्यमाः । त्वक्साररोचनापुण्ड्रा, आययुः स्वमपाठकाः ॥ १४८ ।। आर्यवेदोद्भवान्मन्त्रानुत्कीर्योद्दामया गिरा । उपाविक्षनासनेषु, मराला मानसेष्विव ।। १४९ ॥ आसयामास भूपालो, जायां जवनिकान्तरे । अथैषा न्यगदत्वमा-नाप्यतत्वयुजा गिरा ॥ १५० ॥ अथ तेषां वरोऽवादीत् , खमशास्त्रमहोदधिः । दर्शयन् हृदयानन्द -ममान्तं दशनांशुना ।। १५१॥ स्वमा द्वासप्तती राजन् !, स्वमशास्त्रविदो विदुः। तन्मध्यात्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥ १५२॥ तन्मध्यात प्रवरा राजन् !, वाञ्छितार्थसमर्थकाः । चतुर्दशमहास्वमाः, कीर्तिताः सर्ववेदिभिः ॥१५३॥ अर्हतां चक्रिणां माता, महास्वमांश्चतुर्दश । हरेर्माता तथा सप्त, चतुरः सीरिणोऽपि च ।। १५४ ।। अमीषां पृथिवीपाल! शृणु व्याख्यां मनोहराम् । यस्याः श्रवणमात्रेण, सम्पद्यन्ते मुदोङ्गिनाम् ॥१५॥ करीश्वराद्दानशौण्डो, धुर्यो धर्मरथे वृषात् । सिंहात्कर्मेभनिर्भेदी, राज्यभागभिषेकतः ॥१५६॥ दाम्नः सौरभवाँल्लोके, शशिनः शैत्यदृशाम् । सूर्यात्तमोपहो विश्व-मूर्धन्यो ध्वजदर्शनात् ॥१५७॥ पूर्णकुम्भात् गुणैः पूर्णः, सरसः कमलालयः । अम्भोधेधृतगाम्भीर्यो, विमानात्रिदशालयः ॥१५८॥ ॥६४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy