SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३० ॥ १३१ ॥ १३२ ॥ १३३ ॥ हरिवंशश्रियो नेता, विनेता प्रवलद्विषाम् । स्तोता वंशं मुनीन्दुना मुन्नेता विजयश्रियः ॥ देवी पद्मावती तस्य, पद्मा पद्मापतेरिव । अहार्यशीलाऽलङ्कार- शालिनी गुणमालिनी ॥ आत्मानं गृहिणीवन्तं, मेने राजा तथैव सः । बहुष्वपि वधूषूचैः, रोहिण्येव निशाकरः ॥ गुणैस्तस्या जगद्वयापि नभस्तारागणैरिव । चूर्णवासैरिव क्षिप्तैः स मोदैरधिवासितः ॥ भुञ्जानः पञ्चधा भोगां स्तया सह महीश्वरः । न विवेद गतं कालं शच्येव घनवाहनः ॥ १३४ ॥ इतश्च प्राणते कल्पे - Sनल्पसौख्यवशंवदः । सुरज्येष्ठसुरः श्रेष्ठ - मायुर्निजमपूरयत् ।। १३५ ।। श्रवणस्ये विधौ च्युत्वा, राकायां श्रावणस्य सः । अवाततार तत्कुक्षौ, सिप्रायां स्वातिबिन्दुवत् ॥ १३६ ॥ तदवतारयामिन्याम्, सुखसुप्ता महासती । वीक्षाश्वके क्रमादेतान् महास्वमांश्चतुर्दश ।। १३७ ॥ गजो वृषो मृगाधीशो, -ऽभिषेको दाम चन्द्रमाः । दिननाथो ध्वजः कुम्भः, पद्मंरम्य सरोऽम्बुधिः ॥ १३८ ॥ विमानं रत सन्तानो, निर्धूमश्च विभावसुः । अमूंश्चतुर्दशस्वमान् दृष्ट्वा देवी व्यबुध्यत ॥ इतस्तत्र समागत्य, सर्वेऽपि त्रिदिवेश्वराः । चलत्कुण्डलमाणिक्य - रचितेन्द्रधनुःशताः ॥ किरीटस्पृष्टभूपीठा, नेत्रैर्नीलोत्पलैरिव । पद्मावतीं समभ्यर्च्य पेठुस्स्तवनमीदृशम् ॥ प्रथमा विश्वरामाणाम्, विद्यानामिव मातृकाः । जगन्माताऽसि वन्द्यासि, जगन्नायकजन्मना ॥ समीपवर्त्ति सत्तीर्थ-मदेहदहनं तपः । अस्त्रानं वपुषः शौचं मातस्ते क्रमसेवनम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३९ ॥ युग्मम् ।। १४० ॥ १४१ ॥ १४२ ॥ १४३ ॥ Loxxxxxx नवमो भवः जिन पवनस्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy